SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 976 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1235-36 प्रतिक्रमणैकार्थिकानि तेषां निक्षेपाः। च षड्विधा, तथा चाह नि०- णामं ठवणा दविए खित्ते काले तहेव भावे य। एसो पडियरणाए णिक्खेवो छव्विहो होइ॥१२३५॥ तत्र नामस्थापने गतार्थे, द्रव्यप्रतिचरणा अनुपयुक्तस्य सम्यग्दृष्टेस्तेषु तेष्वर्थेष्वाचरणीयेषु चरणं- गमनं तेन तेन प्रकारेण लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य सचित्तादिद्रव्यस्य वेति, क्षेत्रप्रतिचरणा यत्र प्रतिचरणा व्याख्यायते क्रियते वा क्षेत्रस्य वा प्रतिचरणा, यथा शालिगोपिकाद्याः शालिक्षेत्रादीनि प्रतिचरन्ति, कालप्रतिचरणा यस्मिन् काले प्रतिचरणा व्याख्यायते क्रियते वा कालस्य वा प्रतिचरणा, यथा साधवः प्रादोषिकं वा प्राभातिकं वा कालं प्रतिचरन्ति, भावप्रतिचरणा द्वेधा- प्रशस्ताऽप्रशस्ता च, अप्रशस्ता मिथ्यात्वाज्ञानाविरतिप्रतिचरणा, प्रशस्ता सम्यग्दर्शनज्ञानचारित्रप्रतिचरणा, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्या यतः शुभयोगेषु प्रतीपं क्रमणं- प्रवर्तनं प्रतिक्रमणमुक्तम्, प्रतिचरणाऽप्येवम्भूतैव वस्तुत इति गाथार्थः॥१२३५ // इदानीं परिहरणा, हृञ् हरणे अस्य परिपूर्वस्यैव ल्युडन्तस्यैव परिहरणा, सर्वप्रकारैर्वर्जनेत्यर्थः, सा च अष्टविधा, तथा चाह___ नि०- णामं ठवणा दविए परिरय परिहार वजणाए य / अणुगह भावे य तहा अट्ठविहा होइ परिहरणा // 1236 // नामस्थापने गतार्थे, द्रव्यपरिहरणा हेयं विषयमधिकृत्य अनुपयुक्तस्य सम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य कण्टकादिपरिहरणा वेति, परिरयपरिहरणा गिरिसरित्परिरयपरिहरणा, परिहारपरिहरणा लौकिकलोकोत्तरभेदभिन्ना, लौकिकी मात्रादिपरिहरणा, लोकोत्तरा पार्श्वस्थादिपरिहरणा, वर्जनापरिहरणाऽपि लौकिकलोकोत्तरभेदैव, लौकिका इत्वरा यावत्कथिकाच, इत्वरा प्रसूतसूतकादिपरिहरणा,यावत्कथिका डोम्बादिपरिहरणा, लोकोत्तरा पुनरित्वरा शय्यातरपिण्डादि // 976 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy