________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 974 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1231-32 प्रतिक्रमणप्रतिक्रमकादि। शुभयोगेषु प्रति प्रति वर्तनमित्यर्थः, उक्तंच- प्रति प्रति वर्तनं वा शुभेषु योगेषु मोक्षफलदेषु / निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम्॥ 1 // इह च यथा करणात् कर्मकों: सिद्धिः, तद्व्यतिरेकेण करणत्वानुपपत्तेः, एवं प्रतिक्रमणादपि प्रतिक्रामकप्रतिक्रान्तव्यसिद्धिरित्यतस्त्रितयमप्यभिधित्सुराह नियुक्तिकारः नि०- पडिकमणं पडिकमओ पडिकमियव्वं च आणुपुव्वीए। तीए पच्चुप्पन्ने अणागए चेव कालंमि // 1231 // प्रतिक्रमणं निरूपितशब्दार्थम्, तत्र प्रतिक्रामतीति प्रतिक्रमकः कर्ता, प्रतिक्रान्तव्यं च कर्म अशुभयोगलक्षणम्, आनुपूर्व्या परिपाट्या, अतीते अतिक्रान्ते प्रत्युत्पन्ने वर्तमाने अनागते चैव एष्ये चैव काले, प्रतिक्रमणादियोज्यमिति वाक्यशेषः / आहप्रतिक्रमणमतीतविषयम्, यत उक्तं-अतीतं पडिक्कमामि पडुप्पन्नं संवरेमि अणागयं पच्चक्खामि त्ति तत्कथमिह कालत्रये योज्यते इति?, उच्यते, प्रतिक्रमणशब्दो ह्यत्राशुभयोगनिवृत्तिमात्रार्थः सामान्य परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेवेति न दोष इति गाथाक्षरार्थः / / 1231 // साम्प्रतं प्रतिक्रामकस्वरूपं प्रतिपादयन्नाह नि०-जीवो उ पडिक्कमओ असुहाणं पावकम्मजोगाणं / झाणपसत्था जोगाजे ते ण पडिक्कमे साहू // 1232 // जीवः प्राग्निरूपितशब्दार्थः, तत्र प्रतिक्रामतीति प्रतिक्रामकः, तुशब्दो विशेषणार्थः, न सर्व एव जीवः प्रतिक्रामकः, किं तर्हि?- सम्यग्दृष्टिरूपयुक्तः, केषांप्रतिक्रमकः?- अशुभानां पापकर्मयोगानां अशोभनानां पापकर्मव्यापाराणामित्यर्थः, आहपापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यम्, न, स्वरूपान्वाख्यानपरत्वादस्य, प्रशस्तौ च तौयोगौच प्रशस्त0अतीतं प्रतिक्रमामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि। // 974 //