SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 973 // ॥अथ प्रतिक्रमणाख्यं चतुर्थमध्ययनम् // 4. चतुर्थव्याख्यातं वन्दनाध्ययनम्, अधुना प्रतिक्रमणाध्ययनमारभ्यते-अस्य चायमभिसम्बन्धः, अनन्तराध्ययनेऽर्हदुपदिष्ट- मध्ययनम् प्रतिक्रमणं, सामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपादितम्, इह पुनस्तदकरणतादिनैव स्खलितस्यैव निन्दा प्रतिपाद्यते, यद्वा वन्दनाध्ययने कृतिकर्मरूपायाः साधुभक्तेस्तत्त्वतः कर्मक्षय उक्तः, यथोक्तं- "विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स। तित्थयराण य आणा सुअधम्माऽऽराहणाऽकिरिया // 1 // प्रतिक्रमणाध्ययने तु मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्मनिदाननिषेधः प्रतिपाद्यते, वक्ष्यति च-मिच्छत्तपडिक्कमणं तहेव अस्संजमेवि पडिक्कमणं / कस्सायाण पडिक्कमण जोगाणं यह अप्पसत्थाणं॥१॥अथवा सामायिके चारित्रमुपवर्णितम्, चतुर्विंशतिस्तवे त्वर्हतांगुणस्तुतिः, साच दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयम्, तच्च वन्दनापूर्वमित्यतोऽनन्तराध्ययने / तन्निरूपितम्, इह तु निवेद्य भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्येतत् प्रतिपाद्यते, इत्थमनेनानेकरूपेण सम्बन्धेनाऽऽयातस्यास्य प्रतिक्रमणाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र च नामनिष्पन्ने निक्षेपे प्रतिक्रमणाध्ययनमिति, तत्र प्रतिक्रमणं निरूप्यते-'प्रति' इत्ययमुपसर्गःप्रतीपाद्यर्थे वर्तते, 'क्रमुपादविक्षेपे' अस्य ल्युडन्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति भवति, एतदुक्तं भवति- शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति, उक्तं च- स्वस्थानाद् यत्परस्थानं, प्रमादस्य वशाद्गतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते // 973 // ॥१॥क्षायोपशमिकादावादौदयिकस्य वशं गतः। तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः॥२॥प्रति प्रतिक्रमणंवा प्रतिक्रमणम्, (r) पृष्ठ 962 नि० गाथा 1215 / 7 मिथ्यात्वप्रतिक्रमणं तथैवासंयमेऽपि प्रतिक्रमणम्। कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् // 1 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy