SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 970 // वग्रह इति, अथवाऽवग्रहः पञ्चधा-'देविंदरायगिहवइ सागरिसाधम्मिउग्गहो तह या पंचविहोपण्णत्तो अवग्गहो वीयरागेहि ३.तृतीय॥१॥' अत्र भावावग्रहेण साधर्मिकावग्रहेण चाधिकारः-'आयप्पमाणमित्तो चउद्दिसिं होइ उग्गहो गुरुणो। अणणुण्णा मध्ययनम् वन्दना, तस्स सया ण कप्पए तत्थ पइसरिउं॥१॥' ततश्च तमनुज्ञाप्य प्रविशति, आह च नियुक्तिकारः नियुक्तिः नि०- बाहिरखित्तंमि ठिओ अणुन्नवित्ता मिउग्गहं फासे / उग्गहखेत्तं पविसे जाव सिरेणं फुसइ पाए॥१२२२॥ 1222-23 * बहिःक्षेत्रे स्थितः अनुज्ञाप्य मितावग्रहं स्पृशेत् रजोहरणेन, पुनश्चावग्रहक्षेत्रं प्रविशेत्, कियडूरं यावदित्याह-यावच्छिरसा स्पृशेत् / अनुज्ञाप्य प्रवेशः। पादाविति गाथार्थः॥ 1222 // अव्याबाधं द्रव्यतो भावतश्च, द्रव्यतः खगाद्याघातव्याबाधाकारणविकलस्य भावतः सम्यग्दृष्टेश्चारित्रवतः, अत्रापिकायादिनिक्षेपादियथासम्भवं स्वबुद्ध्या वक्तव्यम्, यात्रा द्रव्यतो भावतश्च, द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पणं भावतःसाधूनामिति, यापना द्विविधा- द्रव्यतो भावतश्च, द्रव्यत औषधादिना कायस्य, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य, क्षामणा द्रव्यतो भावतश्च, द्रव्यतः कलुषाशयस्यैहिकापायभीरो: भावतः संवेगापन्नस्य सम्यग्दृष्टेरिति, आह च नि०- अव्वाबाहंदुविहंदव्वे भावे यजत्त जवणाय।अवराहखामणाविय सवित्थरत्थं विभासिज्जा / / 1223 // एवं शेषपदेष्वपि निक्षेपादि वक्तव्यम्, इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्तः नियुक्तिकृताऽपि स एव व्याख्यातः, अधुना वन्द्यगतविधिप्रतिपादनायाह नियुक्तिकारः 0 देवेन्द्रराजगृहपतिसागारिकसाधर्मिकावग्रहस्तथैव। पञ्चविधः प्रज्ञप्तोऽवग्रहो वीतरागैः॥ 0 आत्मप्रमाणमात्रश्चतुर्दिशं भवत्यवग्रहो गुरोः / अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् // 2 // // 970 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy