________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 969 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1219-21 इच्छादीनां निक्षेपाः। नि०-णामं ठवणादविए खित्ते काले तहेव भावे य / एसो खलु इच्छाए णिक्खेवो छव्विहो होइ // 1219 // नामस्थापने गतार्थे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषः, अनुपयुक्तस्य वेच्छामीत्यादि भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छा रजन्यादिकालाभिलाष:- रयणिमहिसारिया उचोरा परदारिया य इच्छंति / तालायरा सुभिक्खं बहुधण्णा केइ दुब्भिक्खं॥१॥भावेच्छा प्रशस्तेतरभेदा, प्रशस्ता ज्ञानाद्यभिलाषः,अप्रशस्तास्त्र्याधभिलाष इति,अत्र तु विनेयभावेच्छयाऽधिकारः, क्षमादीनां तु पदानां गाथायामनुपन्यस्तानां यथासम्भवं निक्षेपादि वक्तव्यम्, क्षुण्णत्वादन्थविस्तरभयाच्च नेहोक्तमिति / उक्ता इच्छा, इदानीमनुज्ञा, सा च षड्डिधा नि०- नामंठवणा दविए खित्ते काले तहेव भावे य। एसो उ अणुण्णाए णिक्खेवो छव्विहो होइ॥१२२० / नामस्थापने गतार्थे, द्रव्यानुज्ञा लौकिकी लोकोत्तरा कुप्रावचनिकी च, लौकिकी सचित्तादिद्रव्यभेदात्रिविधा, अश्वभूषितयुवतिवैडूर्याद्यनुज्ञेत्यर्थः, लोकोत्तराऽपि त्रिविधा-केवलशिष्यसोपकरणशिष्यवस्त्राद्यनुज्ञा, एवं कुप्रावचनिकी वक्तव्या, क्षेत्रानुज्ञा या यस्य यावतः क्षेत्रस्य यत्र वा क्षेत्रे व्याख्यायते क्रियते वा, एवं कालानुज्ञाऽपि वक्तव्या, भावानुज्ञा आचाराद्यनुज्ञा, भावानुज्ञयाऽधिकारः, अत्रान्तरे गाथायामनुपात्तस्याप्यक्षुण्णत्वादवग्रहस्य निक्षेपः नि०- णामं ठवणा दविए खित्ते काले तहेव भावे य / एसो उ उग्गहस्सा णिक्खेवो छव्विहो होइ॥१२२१ / / सचित्तादिद्रव्यावग्रहणं द्रव्यावग्रहः, क्षेत्रावग्रहो यो यत्क्षेत्रमवगृह्णाति, तत्र च समन्ततः सक्रोशंयोजनम्, कालावग्रहो यो यं कालमवगृह्णाति, वर्षासुचतुरोमासान् ऋतुबद्धे मासम्, भावावग्रहः प्रशस्तेतरभेदः, प्रशस्तो ज्ञानाद्यवग्रहः, इतरस्तु क्रोधाद्य रजनीमभिसारिकास्तु चौराः पारदारिकाश्वेच्छन्ति। तालाचराः सुभिक्षं बहुधान्याः केचिद्दुर्भिक्षम् / / 1 // // 969 //