SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 968 // 3. तृतीयमध्ययनम् वन्दना, सूत्रम् 8 (9) वन्दनकसूत्रम्। नियुक्तिः 1218 इच्छादीनां निक्षेपाः। दुष्कृता मनोदुष्कृता तया प्रद्वेषनिमित्तयेत्यर्थः, वाग्दुष्कृतया असाधुवचननिमित्तया, कायदुष्कृतया आसन्नगमनादिनिमित्तया, क्रोधये ति क्रोधवत्येति प्राप्ते अर्शादेराकृतिगणत्वात् अच्प्रत्ययान्तत्वात् क्रोधया क्रोधानुगतया, मानया मानानुगतया, मायया मायानुगतया, लोभया लोभानुगतया, अयं भावार्थ:-क्रोधाद्यनुगतेन या काचिद्विनयभ्रंशादिलक्षणा आशातना कृता तयेति, एवं दैवसिकी भणिता, अधुनेहभवान्यभवगताऽतीतानागतकालसङ्ग्रहार्थमाह-सर्वकालेन-अतीतादिना निर्वृत्ता सार्वकालिकी तया, सर्व एव मिथ्योपचाराः- मातृस्थानगर्भाः क्रियाविशेषा यस्यामिति समासस्तया, सर्वधर्माः- अष्टौ प्रवचनमातरः तेषामतिक्रमणं- लनं यस्यां सा सर्वधर्मातिक्रमणा तया, एवम्भूतयाऽऽशातनयेति, निगमयति- यो मयाऽतिचार:- अपराधः कृतो निर्वर्तितः तस्य अतिचारस्य हे क्षमाश्रमण! युष्मत्साक्षिकं प्रतिक्रामामि-अपुनःकरणतया निवर्तयामीत्यर्थः, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं प्रशान्तेन भवोद्विग्नेन चेतसा, तथा गर्हाम्यात्मानं युष्मत्साक्षिकं व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमतित्यागेन, सामायिकानुसारेण च निन्दादिपदार्थो न्यक्षेण वक्तव्यः, एवं क्षामयित्वा पुनस्तत्रस्थ एवार्द्धावनतकाय एव भणति-'इच्छामि खमासमणो' इत्यादि सर्वं द्रष्टव्यमित्येवम्, नवरमयं विशेषः- 'खामेमि खमासमणो' इत्यादि सर्वं सूत्रमावश्यिक्या विरहितं तत् पादपतित एव भणति, शिष्यासम्मोहार्थं सूत्रस्पर्शिकगाथा:- स्वस्थाने खल्वनादृत्य लेशतस्तदर्थकथनयैव पदार्थो निदर्शितः, साम्प्रतं सूत्रस्पर्शिकगाथया निदर्शयन्नाह नि०- इच्छा य अणुन्नवणा अव्वाबाहं च जत्त जवणा य / अवराहखामणावि य छट्ठाणा हुँति वंदणए / / 1218 // इच्छा च अनुज्ञापना अव्याबाधं च यात्रा यापना च अपराधक्षामणाऽपि च षट् स्थानानि भवन्ति वन्दनके / / तत्रेच्छा षड्विधा, यथोक्तं // 968 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy