SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 3. तृतीयमध्ययनम् वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 967 // सूत्रम् 8(9) वन्दनकसूत्रम्। वर्तते?, ममतावदुत्सर्पति भवतोऽप्युत्सर्पतीत्यर्थः, पुनरप्याह विनेयो-यापनीयं चेन्द्रियनोइन्द्रियोपशमादिना प्रकारेण भवतां?, शरीरमिति गम्यते, अत्रान्तरे गुरुराह- एवमामम्, यापनीयमित्यर्थः, पुनराह विनेयः- क्षमयामि मर्षयामि क्षमाश्रमणेति पूर्ववत् दिवसेन निवृत्तो दैवसिकस्तं व्यतिक्रम- अपराधम्, दैवसिकग्रहणं रात्रिकाद्युपलक्षणार्थम्, अत्रान्तरे गुरुर्भणतिअहमपि क्षमयामि दैवसिकं व्यतिक्रमं प्रमादोद्भवमित्यर्थः, ततो विनेयः प्रणम्यैवं क्षामयित्वाऽऽलोचनाhण प्रतिक्रमणाhण च प्रायश्चित्तेनात्मानं शोधयन्नत्रान्तरेऽकरणतयोत्थायावग्रहान्निर्गच्छन् यथा अर्थो व्यवस्थितस्तथा क्रियया प्रदर्शयन्नावश्यिक्येत्यादि दण्डकसूत्रं भणति, अवश्यकर्तव्यैश्चरणकरणयोगैर्निर्वृत्ता आवश्यिकी तयाऽऽसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्य प्रतिक्रामामि, विनिवर्तयामीत्यर्थः, इत्थंसामान्येनाभिधाय विशेषेण भणति-क्षमाश्रमणानांव्यावर्णितस्वरूपाणां सम्बन्धिन्या दैवसिक्या दिवसेन निवृत्तया ज्ञानाद्यायस्य शातना आशातना तया, किंविशिष्टया?-त्रयस्त्रिंशदन्यतरया, आशातनाश्च यथा दशासु, अत्रैव वाऽनन्तराध्ययने यथा द्रष्टव्याः, ताओ पुण तित्तीसपि आसायणाओ इमासु चउसु मूलासायणासु समोयरंति दव्वासायणाए 4, दव्वासायणा राइणिएण समं भुंजतो मणुण्णं अप्पणा भुंजइ एवं उवहिसंथारगाइसु विभासा, खित्तासायणा आसन्नं गंता भवइ राइणियस्स, कालासायणा राओ वा वियाले वा वाहरमाणस्स तुसिणीए चिट्ठइ, भावासायणा आयरियं तुम तुमति वत्ता भवइ, एवं तित्तीसंपि चउसु दव्वाइसु समोयरंति यत्किञ्चिन्मिथ्यया यत्किञ्चिदाश्रित्य मिथ्यया, मनसा Oताः पुनस्त्रयस्त्रिंशदपि आशातनाः आसु चतसृषु मूलाशातनासु समवतरन्ति द्रव्याशातनायां 4, द्रव्याशातना रात्निकेन समं भुजानो मनोज्ञमात्मना भुङ्क्ते एवमुपधिसंस्तारकादिषु विभाषा, क्षेत्राशातनाऽऽसन्नं गन्ता भवति रात्निकस्य, कालाशातना रात्रौ वा विकाले वा व्याहरतस्तूष्णीकस्तिष्ठति, भावाशातना आचार्य त्वं त्वमिति वक्ता भवति, एवं त्रयस्त्रिंशदपि चतसृष्वपि द्रव्यादिषु समवसरन्ति / // 967 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy