SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 966 // 3. तृतीयमध्ययनम् वन्दना, सूत्रम् 8(9) वन्दनकसूत्रम्। इत्यस्योत्तमपुरुषैकवचनान्तस्य इच्छामीति भवति, क्षमूषू सहने इत्यस्याङन्तस्य क्षमा, श्रमु तपसि खेदे च अस्य कर्तरि ल्युट् / श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणस्तस्याऽऽमन्त्रणम्, वन्देस्तुमन्प्रत्ययान्तस्य वन्दितुम्, या प्रापणे अस्य ण्यन्तस्य कर्तर्यनीयच्, यापयतीति यापनीया तया, षिधु गत्यां अस्य निपूर्वस्य पनि निषेधनं निषेधः निषेधेन निर्वृत्ता नषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नैषेधिकेत्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासम्मोहार्थं / तुन ब्रूमः, अयं च प्रकृतसूत्रार्थः- अवग्रहाद्वहिःस्थितो विनेयोऽविनतकायः करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह-8 इच्छामि अभिलषामि हे क्षमाश्रमण! वन्दितुं नमस्कारं कर्तुम्, भवन्तमिति गम्यते, यापनीयया-यथाशक्तियुक्तया नैषेधिक्या-8 प्राणातिपातादिनिवृत्तया तन्वा-शरीरेणेत्यर्थः, अत्रान्तरे गुरुाक्षेपादियुक्तः 'त्रिविधेने'ति भणति, ततः शिष्यः संक्षेपवन्दनं करोति, व्याक्षेपादिविकलस्तु छन्दसे ति भणति, ततो विनेयस्तत्रस्थ एवमाह- अनुजानीत अनुजानीध्वं अनुज्ञां प्रयच्छथ, मम इत्यात्मनिर्देशे, कं?-मितश्चासाववग्रहश्चेति मितावग्रहस्तम्, चतुर्दिशमिहाचार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति- अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तल्ललाटं च कराभ्यां संस्पृशन्निदं भणति- अधस्तात्कायः अधःकायः पादलक्षणस्तमधः कार्य प्रति कायेन- निजदेहेन संस्पर्शः कायसंस्पर्शस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः- सह्यो भवतामधुना क्लमो देहग्लानिरूपः, तथा अल्पंस्तोकं क्लान्तं-क्लमो येषां तेऽल्पक्लान्तास्तेषामल्पक्लान्तानाम्, बहुच तच्छुभंच बहुशुभंतेन बहुशुभेन, प्रभूतसुखेनेत्यर्थः, भवतां दिवसो व्यतिक्रान्तो?, युष्माकमहर्गतमित्यर्थः, अत्रान्तरे गुरुर्भणति- तथेति, यथा भवान् ब्रवीति, पुनराह विनेयःयात्रा तपोनियमादिलक्षणा क्षायिकमिश्रौपशमिकभावलक्षणा वा उत्सर्पति भवतां?, अत्रान्तरे गुरुर्भणति- युष्माकमपि // 966 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy