________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 963 // विनय एवोपचारो विनयोपचारः कृतो भवति, स एव किमर्थ इत्याह- मानस्य अहङ्कारस्य भञ्जना विनाशः, तदर्थः, मानेन 3. तृतीयच भग्नेन पूजना गुरुजनस्य कृता भवति, तीर्थकराणां चाऽऽज्ञाऽनुपालिता भवति, यतो भगवद्भिर्विनयमूल एवोपदिष्टो धर्मः, स मध्ययनम् वन्दना, चवन्दनादिलक्षण एव विनय इति, तथा श्रुतधर्माराधना कृता भवति, यतो वन्दनपूर्व श्रुतग्रहणम्, अकिरियत्ति पारम्पर्येणाक्रिया है नियुक्तिः भवति, यतोऽक्रियः सिद्धः, असावपि पारम्पर्येण वन्दनलक्षणाद् विनयादेव भवतीति, उक्तं च परमर्षिभिः- तहारूवं णं|१२१६ भंते! समणं वा माहणं वा वंदमाणस्स पञ्जुवासमाणस्स किंफला वंदणपज्जुवासणया?, गोयमा! सवणफला, सवणे णाणफले, णाणे विनयश्रेष्ठता। विण्णाणफले, विण्णाणे पच्चक्खाणफले, पच्चक्खाणे संजमफले, संजमे अणण्हयफले, अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगइगमणफला। तथा वाचकमुखेनाप्युक्तं- विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् / ज्ञानस्य / फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥१॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम्। तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् // 2 // योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः। तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥३॥ इति गाथार्थः॥ 1215 // किं च नि०- विणओसासणे मूलं, विणीओ संजओ भवे। विणयाउ विप्पमुक्कस्स, कओ धम्मो कोतवो? // 1216 // शास्यन्तेऽनेन जीवा इति शासनं- द्वादशाङ्गं तस्मिन् विनयो मूलम्, यत उक्तं- मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा 0 तथारूपं श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य किंफला वन्दनपर्युपासना?, गौतम! श्रवणफला, श्रवणं ज्ञानफलम्, ज्ञानं विज्ञानफलम्, विज्ञानं प्रत्याख्यानफलम्, प्रत्याख्यानं संयमफलम्, संयमोऽनाश्रवफलः / अनाश्रवस्तपःफलः, तपो व्यवदानफलम, व्यवदानं अक्रियाफलम्, अक्रिया सिद्धिगतिगमनफला। Oमूलात् स्कन्धप्रभवो द्रुमस्य स्कन्धात् पश्चात् - // 963