SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 958 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1202 पञ्चविंशतिरावश्यकानि तत्फलम्। अपराह्नेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात्, प्रातिक्रमणिकानि तु चत्वारि प्रसिद्धानि, एवमेतानि ध्रुवाणि प्रत्यहं कृतिकर्माणि चतुर्दश भवन्त्यभक्तार्थिकस्य, इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्तीति गाथार्थः॥१२०१॥ गतं कतिकृत्वो द्वारम्, व्याख्याता वन्दनमित्यादिप्रथमा द्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते, तत्र कत्यवनतमित्याद्यं द्वारम्, तदर्थप्रतिपादनायाऽऽह नि०- दोओणयं अहाजायं, किइकम्मं बारसावयं / अवनति:- अवनतम्, उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिँस्तद् व्यवनतम्, एकं यदा प्रथममेव 'इच्छामि खमासमणो! वंदिउंजावणिज्जाएनिस्सीहियाए'त्ति अभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयंपुनर्यदा कृतावर्तो निष्क्रान्तः 'इच्छामी' त्यादिसूत्रमभिधाय छन्दोऽनुज्ञापनायैवावनमति, यथाजातं श्रमणत्वमाश्रित्य योनिनिष्क्रमणंच, तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातः, रचितकरपुटस्तु योन्या निर्गतः, एवम्भूत एव वन्दते, तदव्यतिरेकाच्च यथाजातं भण्यते कृतिकर्मवन्दनम्, बारसावयं ति द्वादशावर्ताः-सूत्राभिधानगर्भाः कायव्यापारविशेषा यस्मिन्निति समासस्तद्वादशावर्तम्, इह च प्रथमप्रविष्टस्य षडावर्ता भवन्ति, 'अहोकायं कायसंफासंखमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्वंतो?, जत्ता भे जवणिज्जं च भे, एतत्सूत्रगर्भा गुरुचरणन्यस्तहस्तशिरःस्थापनारूपाः, निष्क्रम्य पुनः प्रविष्टस्याप्येत एव षडिति, एतच्चापान्तरालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यम्, गतं कत्यवनतद्वारम्, साम्प्रतं कतिशिर' इत्येतद्वारं व्याचिख्यासुरिदमपरं गाथाशकलमाह (r) गाथाशकलमाह। // 958 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy