SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 956 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः नि०- पसंते आसणत्थे य, उवसंते उवट्ठिए। अणुन्नवित्तु मेहावी, किइकम्मं पउंजए।। 1199 // प्रशान्तं व्याख्यानादिव्याक्षेपरहितं आसनस्थं निषद्यागतं उपशान्तं क्रोधादिप्रमादरहितं उपस्थितं छन्देनेत्याद्यभिधानेन प्रत्युद्यतम्, एवम्भूतं सन्तमनुज्ञाप्य मेधावी ततः कृतिकर्म प्रयुञ्जीत, वन्दनकं कुर्यादित्यर्थः, अनुज्ञापनायां च आदेशद्वयम्, यानि ध्रुववन्दनानि तेषु प्रतिक्रमणादौ नानुज्ञापयति, यानि पुनरौत्पत्तिकानि तेष्वनुज्ञापयतीति गाथार्थः // 1199 / / गतं कदेति द्वारम्, कतिकृत्वो द्वारमधुना, कतिकृत्वः कृतिकर्म कार्य?, कियत्यो वारा इत्यर्थः, तत्र प्रत्यहं नियतान्यनियतानि च वन्दनानि भवन्त्यत उभयस्थाननिदर्शनायाऽऽह नियुक्तिकारः नि०-पडिकमणे सज्झाएकाउस्सग्गावराहपाहुणए। आलोयणसंवरणे उत्तमढे य वंदणयं // 1200 // प्रतीपंक्रमणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्तनमित्यर्थः, तस्मिन् सामान्यतो वन्दनं भवति, तथा स्वाध्याये वाचनादिलक्षणे, कायोत्सर्गे यो हि विगतिपरिभोगायाऽऽचाम्लविसर्जनार्थं क्रियते, अपराधे गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधेपतन्ति, प्राघूर्णके ज्येष्ठेसमागते सति वन्दनं भवति, इतरस्मिन्नपि प्रतीच्छितव्यम्, अत्र चायं विधिः-संभोइय अण्णसंभोइया य दुविहा हवंति पाहुणया। संभोइय आयरियं आपुच्छित्ता उ वंदे // 1 // इयरे पुण आयरियं वंदित्ता संदिसाविउं तह य। पच्छा वंदेइ जई गयमोहा अहव वंदावे॥२॥ तथाऽऽलोचनायां विहारापराधभेदभिन्नायां संवरणं भुक्तेः प्रत्याख्यानम्, अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभक्तार्थं गृह्णतः संवरणं सांभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः। सांभोगिकान् आचार्य आपृच्छ्य तु वन्दते // 1 // इतरान् पुनराचार्य वन्दित्वा संदिश्य तथा च / पश्चात् वन्दन्ते यतयो गतमोहा अथवा वन्दयेयुः / / वन्दनावन्दनविधिः। नियुक्तिः 1200 वन्दनस्थान ध्रुवाध्रुवाणि वन्दनानि। // 956 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy