________________ वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 955 // वन्दना ग्रन्थकारः ३.तृतीयनि०- मायरं पियरंवावि जिट्ठगंवावि भायरं / किइकम्मं न कारिजा सव्वे राइणिए तहा॥११९६ // मध्ययनम् ___ मातरं पितरं वाऽपि ज्येष्ठकं वाऽपि भ्रातरम्, अपिशब्दान्मातामहपितामहादिपरिग्रहः, कृतिकर्म अभ्युत्थितवन्दनमित्यर्थः, न . नियुक्तिः कारयेत् सर्वान् रत्नाधिकाँस्तथा, पर्यायज्येष्ठानित्यर्थः, किमिति?, मात्रादीन् वन्दनं कारयतः लोकगोपजायते, तेषां च / 1196-98 कदाचिद्विपरिणामो भवति, आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत्, सागारिकाध्यक्षे तु यतनया कारयेद्, एष प्रव्रज्या वन्दनविधिः। प्रतिपन्नानां विधिः, गृहस्थास्तु कारयेदिति गाथार्थः // ११९६॥साम्प्रतं कृतिकर्मकरणोचितं प्रतिपादयन्नाह नि०-पंचमहव्वयजुत्तो अणलस माणपरिवज्जियमईओ।संविग्गनिजरट्ठी किइकम्मकरो हवइ साहू // 1197 // पञ्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि तैर्युक्तः, अणलस त्ति आलस्यरहितः मानपरिवर्जितमतिः जात्यादिमानपराङ्गखमतिः संविग्नः प्राग्व्याख्यात एव निर्जरार्थी कर्मक्षयार्थी, एवम्भूतः कृतिकर्मकारको भवति साधुः, एवम्भूतेन साधुना कृतिकर्म कर्त्तव्यमिति गाथार्थः / / 1197 / / गतं केनेति द्वारम्, साम्प्रतं 'कदे' त्यायातम्, कदा कृतिकर्म कर्तव्यं कदा वान कर्तव्यं?, तत्र नि०- वक्खित्तपराहुत्ते अपमत्ते मा कया हु वंदिज्जा / आहारं च करितो नीहारं वा जड़ करेइ // 1198 // व्याक्षिप्तं धर्मकथादिना पराहुत्ते य परामखम्, चशब्दादुद्भू (त्थि) तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद्वन्देत, आहारं वा कुर्वन्तं नीहारं वा यदि करोति, इह च-धर्मान्तरायानवधारणप्रकोपाहारान्तरायपुरीषानिर्गमनादयो दोषाः प्रपञ्चेन वक्तव्या इति गाथार्थः॥११९८॥ कदा तर्हि वन्देतेत्यत आह // 955 //