SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 951 // नि०-सुत्तत्थबालवुढे य असहुदव्वाइआवईओ या। निस्साणपयंकाउंसंथरमाणावि सीयंति // 1187 // सूत्रंच अर्थश्च बालश्च वृद्धश्च सूत्रार्थबालवृद्धास्तान्, तथाऽसहश्च द्रव्याद्यापदश्च असहद्रव्याद्यापदस्ताँश्च, निश्राणां- आलम्बनानां पदं कृत्वा संस्तरन्तोऽपि संयमानुपरोधेन वर्तमाना अपि सन्तः सीदन्ति, एतदुक्तं भवति- सूत्रं निश्रापदं कृत्वा यथाऽहं पठामि तावत्किं ममान्येन?, एवमर्थं निश्रापदं कृत्वा शृणोमि तावत्, एव बालत्वं वृद्धत्वं असहं-असमर्थत्वमित्यर्थः, एवं द्रव्यापदंदुर्लभमिदं द्रव्यम्, तथा क्षेत्रापदं- क्षुल्लकमिदं क्षेत्रम्, तथा कालापदं- दुर्भिक्षं वर्तते, तथा भावापदं-ग्लानोऽहमित्यादि निश्रापदं कृत्वा संस्तरन्तोऽपि सीदन्त्यल्पसत्त्वा इति गाथार्थ:-॥११८७॥ एवं नि०- आलंबणाण लोगो भरिओजीवस्स अजउकामस्स / जं जं पिच्छइ लोए तं तं आलंबणं कुणइ // 1188 // आलम्बनानांप्राग्निरूपितशब्दार्थानां लोकः मनुष्यलोकः भृतः पूर्णो जीवस्य अजउकामस्स त्ति अयतितुकामस्य, तथा चअयतितुकामो यद् यत्पश्यति लोके नित्यवासादि तत् तदालम्बनं करोतीति गाथार्थः॥ 1188 // किं च- द्विधा भवन्ति प्राणिनः मन्दश्रद्धास्तीव्रश्रद्धाश्च, तत्रान्यन्मन्दश्रद्धानामालम्बनम्, अन्यच्च तीव्रश्रद्धानामिति, आह च नि०-जे जत्थ जया जइया बहुस्सुया चरणकरणपब्बट्ठा। जंते समायरंती आलंबण मंदसड्डाण // 1189 // ये केचन साधवः यत्र ग्रामनगरादौ यदा यस्मिन् काले सुषमदुष्षमादौ जइय त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणप्रभ्रष्टाः सन्तो यत्ते समाचरन्ति पार्श्वस्थादिरूपं तदालम्बनं मन्दश्रद्धानाम्, भवतीति वाक्यशेषः, तथाहि- आचार्यो मथुरायां मङ्गः सुभिक्षेऽप्याहारादिप्रतिबन्धापरित्यागात् पार्श्वस्थतामभजत्, तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्रायः॥११८९॥ नि०- जे जत्थ जया जइया बहुस्सुया चरणकरणसंपन्ना / जंते समायरंती आलंबण तिव्वसड्डाणं // 1190 / / 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1987-88 नित्यवासे सदोषता सङ्गमाचार्योंदायन दृष्टान्ताः / | नियुक्तिः 1189-90 मन्दस्य लोक आलम्बनम्। // 951 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy