________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ 0.3 उपोद्घात| नियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 783 | निह्नवमतानि, तदादिपुरुषग्रामकालाः। भाष्य: 127 // 551 // तीसे जमाली पुत्तो, तस्स अण्णोजा नाम भगवतो दुहिता भारिया // शेषं पूर्ववत् / गतः प्रथमो निह्नवः, साम्प्रतं द्वितीयं प्रतिपादयन्नाह9 भा०-सोलस वासाणि तया जिणेण उप्पाडियस्स णाणस्स / जीवपएसियदिट्ठी उसभपुरंमी समुप्पण्णा // 127 // षोडश वर्षाणि तदा जिनेनोत्पादितस्य ज्ञानस्य जीवप्रदेशिकदृष्टिस्तत ऋषभपुरे समुत्पन्ना इति गाथार्थः॥ कथमुत्पन्ना? रायगिह नगरं गुणसिलयं चेइयं, तत्थ वसू नामायरिओ चोद्दसपुव्वी समोसढो, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुवे इम आलावयं अज्झावेइ- एगे भंते! जीवपएसे जीवेत्ति वत्तव्वं सिया?, नो इणमढे समढे, एवं दो जीवपएसा तिण्णि संखेज्जा असंखेज्जा वा, जाव एगेणावि पदेसेण ऊणो णो जीवोत्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुण्णे लोगागासपदेसतुल्लपएसे जीवेत्ति वत्तव्व' मित्यादि, एवमज्झावितो मिथ्यात्वोदयतोव्युत्थितः सन्नित्थमभिहितवान्-योकादयो जीवप्रदेशाः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते, किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वात् जीवत्वस्येति, स खल्वेवं प्रतिपादयन् गुरुणोक्तो- नैतदेवम्, जीवाभावप्रसङ्गात्, कथं?, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीवः, अन्यप्रदेशतुल्यपरिमाणत्वात्, प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशो वा जीवः, शेषप्रदेशतुल्यपरिमाणत्वाद्, अन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वंयुज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमित्येवM तस्या जमालिः पुत्रः, तस्य अनवद्या नाम भगवतो दुहिता भार्या। 0 राजगृहं नगरं गुणशीलं चैत्यम्, तत्र वसुनामा आचार्यश्चतुर्दशपूर्वी समवसृतः, तस्य शिष्यस्तिष्यगुप्तो नाम, स आत्मप्रवादपूर्वे इममालापकं अध्येति-‘एको भदन्त! जीवप्रदेशो जीव इति वक्तव्यं स्यात्?, नैषोऽर्थः समर्थः, एवं द्वौ जीवप्रदेशौ त्रयः संख्येया असंख्येया वा, यावदेकेनापि प्रदेशेनोनो न जीव इति वक्तव्यं स्यात्, यस्मात् कृत्स्नप्रतिपूर्णलोकाकाशप्रदेशशतुल्यप्रदेशो जीव इति वक्तव्यं' एवमधीयानः। // 551 //