________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 548 // चतुर्दशषोडशवर्षाणि तथा चोद्दसवीसुत्तरा य दोन्नि सय त्ति चतुर्दशाधिके द्वे शते विंशत्युत्तरे च द्वे शते, वर्षाणामिति गम्यते, तथाऽष्टाविंशत्यधिके च द्वे शते, तथा पञ्चैव शतानि चतुश्चत्वारिंशदधिकानि, इति गाथार्थः // अवयवार्थं तु भाष्यकार एव प्रतिपादयिष्यति॥ नि०-पंचसया चुलसीया छच्चेवसया णवोत्तरा होंति / णाणुप्पत्तीय दुवे उप्पण्णा णिव्वुए सेसा // 783 // पञ्च शतानि चतुरशीत्यधिकानि षट् चैव शतानि नवोत्तराणि भवन्ति / ज्ञानोत्पत्तेरारभ्य चतुर्दशषोडशवर्षाणि यावदतिक्रान्तानि तावदत्रान्तरे द्वावाद्यावुत्पन्नौ, उत्पन्ना निर्वृत्ते भगवति, यथोक्तकाले चातिक्रान्ते शेषाःखल्वव्यक्तादय इति, बोटिकप्रभवकालाभिधानं लाघवार्थमेवेति गाथार्थः / अधुना सूचितमेवार्थं मूलभाष्यकृद् यथाक्रमं स्पष्टयन्नाह भा०-चोइस वासाणि तया जिणेण उप्पाडियस्सणाणस्स / तो बहुरयाण दिट्ठीसावत्थीए समुप्पण्णा // 125 // चतुर्दशवर्षाणि तदा जिनेन वीरेणोत्पादितस्य ज्ञानस्य ततोऽत्रान्तरे बहुरतानां दृष्टिः श्रावस्त्यां नगर्यां समुत्पन्नेति गाथार्थः॥ यथोत्पन्ना तथोपदर्शयन् सङ्ग्रहगाथामाह भा०- जेट्ठा सुदंसण जमालिऽणोज सावत्थितेंदुगुजाणे। पंचसया य सहस्सं ढंकेण जमालि मोत्तूणं // 126 // कुण्डपुरं नगरम्, तत्थ जमाली सामिस्स भाइणिज्जो, सो सामिस्स मूले पंचसयपरिवारो पव्वइओ, तस्स भज्जा सामिणो दुहिता, तीसे नामाणि जेट्ठत्ति वा सुदंसणत्ति वा अणोज्जत्ति वा, सावि सहस्सपरिवारा अणुपव्वइया, जहा पण्णत्तीए तहा कुण्डपुरं नगरम्, तत्र जमालिः स्वामिनो भागिनेयः, स स्वामिनो मूले पञ्चशतपरीवारः प्रव्रजितः, तस्य भार्या स्वामिनो दुहिता, तस्या नामानि- ज्येष्ठेति वा सुदर्शनेति वा अनवद्येति वा, साऽपि सहस्रपरिवारा अनुप्रव्रजिता, यथा प्रज्ञप्ती तथा 2 | 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 783 निह्नवमतानि, तदादिपुरुषग्रामकालाः। भाष्यः 125-126 // 548 //