SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ ऋजुतत्सूत्रयति-गमयतीति ऋजुसूत्रः, यद्वा ऋजु-वक्रविपर्ययादभिमुखं श्रुतं तु ज्ञानम्, ततश्चाभिमुखंज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात्, अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहिअतीतमेष्यं वा न भावः, विनष्टानुत्पन्नत्वाद् अदृश्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात्, खपुष्पवत्, तस्माद्वर्त्तमानं स्वं वस्तु, तच्च न लिङ्गादिभेदभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तु तटः तटी तटमिति, वचनभिन्नमापो जलम्, नामादिभिन्नं नामस्थापनाद्रव्यभावा इत्युक्त ऋजुसूत्रः, इच्छति प्रतिपद्यते विशेषिततरं नामस्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं- वर्तमानं नयः, कः?, 'शप आक्रोशे'शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपिशब्द एव, तथाहि-अयं नामस्थापनाद्रव्यकुम्भाः न सन्त्येवेति मन्यते, तत्कार्याकरणात्,खपुष्पवत्, न च भिन्नलिङ्गवचनमेकम्, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः॥ नि०- वत्थूओ संकमणं होइ अवत्थूणए समभिरूढे ।वंजणमत्थतदुभयं एवंभूओ विसेसेइ // 758 // वस्तुनः सङ्कमणं भवति अवस्तु नये समभिरूढे, वस्तुनो- घटाख्यस्य सङ्कमणं- अन्यत्र कुटाख्यादौ गमनं किं?- भवति / अवस्तु- असदित्यर्थः, नये पर्यालोच्यमाने एकस्मिन्नानार्थसमभिरोहणात्समभिरूढः तस्मिन्, इयमत्र भावना- घटः कुटः / कुम्भ इत्यादिशब्दान् भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटना घटः, विशिष्टचेष्टावानर्थो घट इति, तथा कुट कौटिल्येकुटनात्कुटः, कौटिल्ययोगात्कुटः, तथा उभ उम्भ पूरणे उम्भनात् उम्भः, कुस्थितपूरणादित्यर्थः, ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र सङ्कान्तिः कृता भवति, तथा च सति 0.3 उपोद्धातनियुक्तिः, 0.3.6 षष्ठद्वारम्, उपक्रमादिः। नियुक्तिः 758 नयसप्तकंतल्लक्षणभदाः, त्रिभिः श्रोत्रपेक्षयाअधिकारः। // 499 // // 499 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy