________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 498 // सामान्यमेव प्रतिपद्यते न विशेषान्, तथा च मन्यते-विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनान्तरभूता वा?, यद्यर्थान्तरभूताः / 0.3 उपोद्धातन सन्ति ते, सामान्यादर्थान्तरत्वात्, खपुष्पवत्, अथानन्तरभूताः सामान्यमानं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत्, नियुक्तिः, पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः।वच्चति इत्यादि व्रजति- गच्छति निः- आधिक्येन चयनं चयः अधिकश्चयो निश्चयः- सामान्य विगतो निश्चयो विनिश्चयः-निःसामान्यभावः तदर्थं- तन्निमित्तम्, सामान्याभावायेति भावना, व्यवहारो नयः, क्व?- सर्वद्रव्येषु उपक्रमादिः। नियुक्तिः 757 सर्वद्रव्यविषये, तथा च विशेषप्रतिपादनपरः खलु, अयं हि सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, नयसप्तकंन तदतिरिक्तं सामान्यम्, तस्य व्यवहारापेतत्वात्, तथा च- सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात्?, यदि भिन्नं तल्लक्षणभदाः, विशेषव्यतिरेकेणोपलभ्येत, नचोपलभ्यते, अथाभिन्नं विशेषमात्रंतत्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, अथवा विशेषेण त्रिभिः श्रोत्रपेक्षयानिश्चयो विनिश्चयः- आगोपालाङ्गनाद्यवबोधोन कतिपयविद्वत्सन्निबद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु, आह च भाष्यकार:- ऽधिकारः। भमरादि पञ्चवण्णादि निच्छए जंमि वा जणवयस्स। अत्थे विनिच्छओ सो विनिच्छयत्थोत्ति जो गेज्झो॥१॥ बहुतरओत्ति य तं चिय गमेइ संतेऽवि सेसए मुयइ। संववहारपरतया ववहारो लोयमिच्छतो॥२॥ इत्यादि, उक्तो व्यवहार इति गाथार्थः॥ नि०-पचुप्पण्णग्गाही उज्जुसुओनयविही मुणेयव्वो / इच्छइ विसेसियतरं पञ्चुप्पण्णं णओसद्दो / / 757 // साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्न-भिन्नव्यक्तिस्वामिकमित्यर्थः, तद्वहीतुं शीलमस्येति प्रत्युत्पन्नग्राही, ऋजुसूत्र ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः तत्र ऋजु-वर्तमानमतीतानागतवक्रपरित्यागात् वस्त्वखिलं Oभ्रमरादीन् पञ्चवर्णादीन् नेच्छति यस्मिन् वा जनपदस्य। अर्थे विनिश्चयः स विनिश्चयार्थ इति यो ग्राह्यः // 1 // बहुतर इति च तमेव गमयति सतोऽपि शेषान् मुञ्चति / संव्यवहारपरतया व्यवहारो लोकमिच्छन् // 2 // B