SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 497 // अवयवार्थं तु प्रतिनयं नयाभिधाननिरुक्तद्वारेण वक्ष्यति, आह च नि०-णेगेहिमाणेहिं मिणइत्ती णेगमस्स णेरुत्ती।सेसाणंपिणयाणं लक्खणमिणमो सुणेह वोच्छं॥७५५॥ न एकं नैकं- प्रभूतानीत्यर्थः, नैकैर्मानः- महासत्तासामान्यविशेषज्ञानैर्मिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः, निगमेषु वा भवो नैगमः, निगमाः- पदार्थपरिच्छेदाः, तत्र सर्वं सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादिव्यावृत्तावबोधहेतुभूतं च विशेषं परमाणुमिति / आह- इत्थं तहयं नैगमः सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवम्, सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकारः-जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिण्णे। मन्नइ अचंतमतो मिच्छद्दिट्ठी कणातोव्व // 1 // दोहिवि णएहि नीतं सत्थमुलूएण तहवि मिच्छत्तं / जं सविसयप्पहाणतणेण अन्नोन्ननिरवेक्खा // 2 // अथवा निलयनप्रस्थकग्रामोदाहरणेभ्योऽनुयोगद्वारप्रतिपादितेभ्यः खल्वयमवसेय इत्यलं विस्तरेण, गमनिकामात्रमेतत् / सेसाण मित्यादि शेषाणामपि नयानां- सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्ये अभिधास्य इत्ययं गाथार्थः॥ नि०- संगहियपिंडियत्थं संगहवयणं समासओ बेंति / वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं॥७५६॥ __ आभिमुख्येन गृहीत:-उपात्तःसङ्गहीतः पिण्डित:- एकजातिमापन्नः अर्थो-विषयो यस्य तत्सङ्गहीतपिण्डितार्थं सङ्गहस्य वचनं सङ्ग्रहवचनं समासतः सङ्केपतः, ब्रुवते तीर्थकरगणधरा इति, एतदुक्तं भवति-सामान्यप्रतिपादनपरः खलु अयं सदित्युक्ते Oयत सामान्यविशेषौ परस्परं वस्तुतश्च स भिन्नौ / मन्यतेऽत्यन्तमतो मिथ्यादृष्टिः कणाद इव // 1 // द्वाभ्यामपि नयाभ्यां नीतं शास्त्रमुलूकेन तथापि मिथ्यात्वम्। यत् स्वविषयप्रधानत्वेनान्योऽन्यनिरपेक्षौ // 2 // 0.3 उपोद्घातनियुक्ति:, 0.3.6 षष्ठद्वारम्, उपक्रमादिः। नियुक्तिः 755-756 नयसप्तकंतल्लक्षणभदाः, त्रिभिः श्रोत्रपेक्षयाऽधिकारः। // 497 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy