________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 496 // भावलक्षणम्, तत्र सामायिकस्य जीवगुणत्वात् क्षयोपशमोपशमक्षयस्वभावत्वाद्भावलक्षणता, अमुमेवार्थं चेतस्यारोप्याह'भावे य' इत्यादि, भावेच-विचार्यमाणे तथा लक्षणमिदंसमासतः सङ्केपतो भणितम् / सामायिकस्य वैशेषिकलक्षणाभिधित्सयाऽऽह-अहवावि भावलक्खण चउव्विधंसद्दहणमादी अथवाऽपि भावस्य-सामायिकस्य लक्षणमनुस्वारलोपोऽत्र द्रष्टव्यः, चतुर्विधं श्रद्धानादीति गाथार्थः / यदुक्तं-'चतुर्विधं श्रद्धानादि' तत्प्रदर्शनायाह नि०- सद्दहण जाणणा खलु विरती मीसा य लक्खणं कहए। तेऽवि णिसामिति तहा चउलक्खणसंजुयं चेव // 753 // दारं॥ इह सामायिकं चतुर्विधं भवति, तद्यथा-सम्यक्त्वसामायिकं श्रुतसामायिकं चारित्रसामायिकं चारित्राचारित्रसामायिक च, अस्य यथायोगंलक्षणं सद्दहणं ति श्रद्धानम्, लक्षणमिति योगः सम्यक्त्वसामायिकस्य, जाणण त्ति ज्ञानं ज्ञा-संवित्तिरित्यर्थः, सा च श्रुतसामायिकस्य, खलुशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः, विरति त्ति विरमणं विरति:अशेषसावद्ययोगनिवृत्तिः, सा च चारित्रसामायिकस्य लक्षणम्, मीसा य त्ति मिश्रा-विरताविरतिः, सा च चारित्राचारित्रसामायिकस्य लक्षणम्, कथयतीत्यनेन स्वमनीषिकाऽपोहेन शास्त्रपारतत्र्यमाह, भगवान् जिन एवं कथयति, तस्य च कथयतः तेऽपि गणधरादयः निशामयन्ति शृण्वन्ति तथा तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः॥ उक्तं लक्षणद्वारम्, अधुना नयद्वारं प्रतिपिपादयिषुराह नि०-णेगमसंगहववहारउजुसुए चेव होइ बोद्धव्वे / सद्देय समभिरूढे एवंभूए य मूलणया॥७५४॥ नयन्तीति नया:- वस्त्ववबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्तरहेतव इत्यर्थः, ते च नैगमादयः, नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रश्चैव भवति बोद्धव्यः, शब्दश्च समभिरूढः एवम्भूतश्च मूलनया इति गाथासमुदायार्थो निगदसिद्धः॥ 0.3 उपोद्घातनियुक्तिः, 0.3.6 षष्ठद्वारम्, उपक्रमादिः। नियुक्ति: 752 लक्षणनिक्षेपाः | (12), भावे | श्रद्धानादि | (4) / | नियुक्ति: 754 | नयसप्तकं| तल्लक्षणभदाः, त्रिभिः | श्रोत्रपेक्षया| ऽधिकारः। // 496 //