SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 495 // षष्ठद्वारम्, उपक्रमादिः। नियुक्ति: 752 लक्षणनिक्षेपाः (12), भावे श्रद्धानादि 1(4) / लोगंमि। जीवो सचेयणोत्ति य विगप्पनियमादयो भणिया॥१॥ तथा नाणत्ति त्ति नानाभावो नानाता- भिन्नता, सा च लक्षणम्, सा पुनश्चतुर्दा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो नानाता द्विधा- तद्व्यनानाता अन्यद्रव्यनानाता च, तत्र तव्यनानाता परमाणूनां परस्परतो भिन्नता, अन्यद्रव्यनानाता परमाणो_णुकादिभेदभिन्नता, एवमेकादिप्रदेशावगाढेकादिसमयस्थित्येकादिगुणशुक्लानांतदतन्नानाता वाच्या, इदंच लक्षणं पदार्थस्वरूपावस्थापकत्वात् निमित्तं ति लक्ष्यते शुभाशुभमनेनेति लक्षणं निमित्तमेव लक्षणं निमित्तलक्षणम्, तच्चाष्टधा, उक्तं च-भोमसुमिणंतरिक्खं दिव्वं अंगसर लक्खणं तह या वंजणमट्ठविहं खलु निमित्तमेयं मुणेयव्वं ॥१॥स्वरूपमस्य ग्रन्थान्तरादवसेयम् / / उप्पाद त्ति यतो नानुत्पन्नं वस्तु लक्ष्यते अत उत्पादोऽपि वस्तुलक्षणम्, विगमोय त्ति विगमश्च विनाशश्च वस्तुलक्षणम्, तमन्तरेणोत्पादाभावात्, न हि वक्रतयाऽविनष्टमङ्गलिद्रव्यं ऋजुतयोत्पद्यत इति भावनेति गाथार्थः॥ नि०-वीरियभावे य तहा लक्खणमेयं समासओ भणियं / अहवावि भावलक्खण चउव्विहं सद्दहणमाई॥७५२॥ वीरियं ति वीर्य- सामर्थ्यं यद्यस्य वस्तुनः तदेव लक्षणं वीर्यलक्षणम्, आह च भाष्यकार:-विरियंति बलं जीवस्स लक्खणं जंच जस्स सामत्थं। दव्वस्स चित्तरूवंजह विरिय महोसहादीणं॥१॥तथा भावानां- औदयिकादीनां लक्षणं पुद्गलविपाकादिरूपं भावलक्षणम्, यथोदयलक्षणः औदयिकः, उपशमलक्षणस्त्वौपशमिकः, तथानुत्पत्तिलक्षणः क्षायिको, मिश्रलक्षणः क्षायोपशमिकः, परिणामलक्षणः पारिणामिकः, संयोगलक्षणः सान्निपातिक इति / अथवा भावाश्च ते लक्षणंचात्मन इति - च लोके। जीवः सचेतन इति च विकल्पनियमादयो भणिताः॥ 1 // 0 भौमं स्वाप्नमान्तरीक्षं दिव्यमाङ्ग स्वरगतं लक्षणगतं तथा च। व्यञ्जनमष्टविधं खलु निमित्तमेतद् मुणितव्यम् / / 1 / / 0 वीर्यमिति बलं जीवस्य लक्षणं यच्च यस्य सामर्थ्यम् / द्रव्यस्य चित्ररूपं यथा वीर्यं महौषधादीनाम् // 1 // // 495 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy