________________ १.प्रथम मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 834 // सयाऽऽह नि०- सामं१समंच 2 सम्मं 3 इग 4 मवि सामाइअस्स एगट्ठा। नामंठवणा दविए भावंमि अतेसि निक्खेवो॥१०३०॥ नि०- महुरपरिणाम सामं१ समं तुला 2 समंखीरखंडजुइँ३। दोरे हारस्स चिई एग 4 मेआइंतु दव्वंमि॥१०३१॥ इह सामं समं च सम्यक् ‘इगमवि देशीपदं क्वापि प्रवेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याऽऽह- सामायिकस्यैकार्थिकानि। अमीषां निक्षेपमुपदर्शयन्नाह- नामस्थापनाद्रव्येषु भावे च नामादिविषय इत्यर्थः, 'तेषां' सामप्रभृतीनां निक्षेपः, कार्य इति गम्यते, स चायं- नामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यक्पदयोरपि द्रष्टव्यः। तत्र नामस्थापने क्षुण्णे एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह महुरे त्यादि,- इहौघतो मधुरपरिणामं द्रव्यं- शर्करादि द्रव्यसाम समं तुला इति भूतार्थालोचनायां समं तुलाद्रव्यम्, सम्यक् क्षीरखण्डयुक्तिः क्षीरखण्डयोजनं द्रव्यसम्यगिति, तथा दोरे इति सूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविपर्यायापेक्षया हारस्य मुक्ताकलापस्य चयनं चितिः- प्रवेशनं द्रव्येकम्, अत एवाह- एयाइं तु दव्वंमि त्ति एतान्युदाहरणानि द्रव्यविषयाणीति गाथाद्वयार्थः॥१०३१॥साम्प्रतं भावसामादि प्रतिपादयन्नाह नि०- आओवमाइ परदुक्खमकरणं 1 रागदोसमज्झत्थं / नाणाइतिगं 3 तस्साइ पोअणं 4 भावसामाई // 1032 // आत्मोपमया- आत्मोपमानेन परदुःखाकरणं भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः, एतदुक्तं भवति- आत्मनीव परदुःखाकरणपरिणामो भावसाम, तथा रागद्वेषमाध्यस्थ्यं अनासेवनया रागद्वेषमध्यवर्तित्वं समम्, सर्वत्राऽऽत्मनस्तुल्यरूपेण ®देशीपदे। 0 परदुःखाकरणं प० / सामायिक, | नियुक्तिः 1030-1032 क्षेत्रकालकरणे, जीवभावकरणे श्रुते बद्धाबद्ध| निशीथानिशीथे नोश्रुते गुणे तपः संयमी। // 834 //