________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 832 // भवति भदन्त इत्यत्र भदि कल्याणे सुखे च अर्थद्वये धातुः 'जृविशिभ्यां झच्' (उ.पा. 413) औणादिकप्रत्ययो दृष्टः, तं १.प्रथमदृष्ट्वा प्रकृतिरुह्यते, भदि कल्याण इति अनुनासिकलोपश्चेति, तस्यौणादिकविधानात्, ततश्च भदन्त इति भवति, भदन्तः मध्ययनं कल्याणः सुखश्चेत्यर्थः, प्राकृतशैल्यावा भवति भवान्त इति, अत्र भवस्य संसारस्यान्तस्तेनाऽऽचार्येण क्रियत इति भवान्तकर सामायिक, नियुक्तिः त्वाद्भवान्त इति, तथा- भयान्तश्चेत्यत्र भयं-त्रासः तमाचार्यं प्राप्य भयस्यान्तो भवतीति भयान्तो-गुरुः, भयस्य वाऽन्तको 1029 भयान्तक इति, तस्याऽऽमन्त्रणम्, रचना नामादिविन्यासलक्षणा, भयस्य षड्भेदाः षट्प्रकारा:- नामस्थापनाद्रव्यक्षेत्रकाल क्षेत्रकाल करणे, जीवभावभेदभिन्नाः, तत्र पञ्च प्रकाराः प्रसिद्धाः, षष्ठं भावभयंसप्तधा- इहलोकभयं परलोकभयमादानभयमकस्माद्भयमश्लोक- भावकरणे श्रुते भयमाजीविकाभयं मरणभयं चेति, तत्रापीहलोके भयं स्वभवाद्यत् प्राप्यते परलोकभयं परभवात्, किञ्चनद्रव्यजातमादानं बद्धाबद्ध निशीथातस्य नाशहरणादिभ्यो भयं आदानभयम्, यत्तु बाह्यनिमित्तमन्तरेणाहेतुकं भयं अकस्माद् भवति तदाकस्मिकम्, 'श्लोक निशीथेनोश्रुते श्लाघायां' श्लोकनं श्लोकः श्लाघा- प्रशंसा तद्विपर्ययोऽश्लोकस्तस्माद्भयमश्लोकभयम्, आजीविकाभयं-दुर्जीविकाभयम्, गुणे तप: संयमौ। प्राणपरित्यागभयं मरणभयमिति, एवं सर्वस्मिन् वर्णिते अनुक्रमेण उक्तलक्षणेनान्तेऽपि षड् भेदा इति, तत्र 'अम गत्यादिषु' भाष्य: 185 अमनमन्तः- अवसानमित्यर्थः, अस्मिन्नपि षड् भेदाः, तद्यथा- नामान्तः स्थापनान्तः द्रव्यान्तः क्षेत्रान्तः कालान्तः भावान्तश्चेति, नामस्थापने क्षुण्णे, द्रव्यान्तो घटाद्यन्तः, क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्रान्तः, कालान्तः समयाद्यन्तः, भावान्तः औदयिकादिभावान्तः॥ भा०- एवं सव्वंमिऽवि वन्निअंमि इत्थं तु होइ अहिगारो।सत्तभयविप्पमुक्के तहा भवंते भयंते अ॥१८५॥ एवं उक्तेन प्रकारेण सर्वस्मिन् अनेकभेदभिन्ने भयादौ वर्णिते सति अत्र तु प्रकृते भवत्यधिकारः- प्रकृतयोजना सप्तभयविप्रमुक्तो छ // 832 //