________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 825 // सूत्रस्पर्श नैगमनयो भाषते- इष्टद्रव्येषु इति मनोज्ञपरिणामकारणत्वान्मनोज्ञेष्वेव शयनाशनादिद्रव्येष्विति, तथाहि-"मणुण्णं भोयणं १.प्रथमभोच्चा, मणुण्णं सयणासणं / मणुण्णंसि आगारंसि मणुण्णं झायए मुणी॥१॥' इत्यागमः, शेषाणां सङ्ग्रहादीनां सर्वद्रव्येषु, मध्ययन सामायिक, शेषनया हि परिणामविशेषात् कस्यचित् किञ्चिन्मनोज्ञमिति व्यभिचारात्, सर्वद्रव्येषु स्थितस्य क्रियते यत्र मनोज्ञः परिणाम नियुक्तिः इति मन्यन्ते, पर्यायेषु न सर्वेष्ववस्थानाभावात्, तथाहि- यो यत्र निषद्यादौ स्थितः न स तत्र तत्सर्वपर्यायेषु, एकभाग एव / 1027 स्थितत्वात्, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पुनरुक्तदोषप्रसङ्गः, तथा चोक्तं भाष्यकारेण-णणु भणियमुवग्घाए केसुत्ति इह करणभयान्तकओ पुणो पुच्छा?। केसुत्ति तत्थ विसओ इह केसु ठियस्स तल्लाहो॥१॥ तो किह सव्वद्दव्वावत्थाणं? णणु जाइमेत्तवयणाओ। सामायिकसर्वधम्माइसव्वदव्वाहारो सव्वो जणोऽवस्सं॥२॥ अथवोपोद्धाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वद्रव्याणि वय॑योगप्रत्या ख्यानयावतीवसामायिकस्य हेतुः, श्रद्धेयज्ञेयक्रियानिबन्धनत्वात्, अथवाऽन्यथा पुनरुक्तपरिहारः- कृताकृतादिगाथायां कृतमकृतं वा त्रिविधानां सामायिकं कार्य कर्म, कर्तुरीप्सिततमत्वात् केन कृतमिति कर्तुः प्रश्नः, केषु द्रव्येष्विति साधकतमकरणप्रश्नः, प्राकृते तृतीया-3 निरूपणम्। बहुवचनंसप्तमीबहुवचनतुल्यं तृतीयार्थे वासप्तमी कृत्वा निर्देशः, नचैतदपिस्वमनीषिकाव्याख्यानम्, यतो भाष्यकारेणाप्य भाष्यः१७६ भ्यधायि- "विसओवि उवग्घाए केसुत्तीहं स एव हेउत्ति। सद्धेयणेयकिरियाणिबंधणं जेण सामइयं॥१॥ अहवा कयाकयाइसु कजं केण व कयं च कत्तत्ति / केसुत्ति करणभावो ततियत्थे सत्तमी काउं॥२॥ इत्यलं प्रसङ्गेनेति गाथार्थः / / 176 // द्वारम् ॥साम्प्रतं __ 0 मनोज्ञं भोजनं भुक्त्वा मनोज्ञं शयनासनम्। मनोज्ञेऽगारे मनोज्ञं ध्यायति मुनिः॥१॥ ॐ ननु भणितमुपोद्धाते केष्वितीह कुतः पुनः पृच्छा? / केष्विति तत्र // 825 // विषय इह केषु स्थितस्य तल्लाभः // 1 // तदा कथं सर्वद्रव्यावस्थानं? ननु जातिमात्रवचनात् / धर्मादिसर्वद्रव्याधारः सर्वो जनोऽवश्यम् // 2 // 0 विषयोऽप्यु(यो वो)पोद्धाते केष्वितीह स एव हेतुरिति / श्रद्धेयज्ञेयक्रियानिबन्धनं येन सामायिकम्॥१॥ अथवा कृताकृतादिषु कार्य केन वा कृतं च कर्तेति / केष्विति करणभावः तृतीयार्थे सप्तमीं कृत्वा // 2 //