________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 808 // निक्षेपाः, औदारिकशरीरप्रायोग्याणां द्रव्याणां ग्रहणमेव करोति, न तु मुञ्चति, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, युक्तिः पूर्ववत्, नमस्कारअतः सङ्घातमेकसमयमिति स्थितम्, तथैव परिशाटन मिति परिशाटनामकरणमेकसमयमिति वर्तते, सर्वपरिशाटस्याप्येक व्याख्या, सामयिकत्वादेवेति, औदारिक इत्यौदारिकशरीरे संघायणपरिसाडण त्ति सङ्घातनपरिशाटनकरणं तु क्षुल्लकभवग्रहणं त्रिसमयोनम्, व्याख्या, तत् पुनरेवं भावनीयं- जघन्यकालस्य प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सङ्घातसमय नियुक्तिः 1016 इति, तैयूँनम्, तथा चोक्तं-दो विग्गहमि समया समयो संघायणाए तेहूणं / खुड्डागभवग्गहणं सव्वजहन्नो ठिई कालो॥१॥इह च। साधोसर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणा सत्तरस स्वरूपादि। हवंति आणपाचूंमित्ति गाथार्थः॥ भाष्य:१६४ भा०- एयं जहन्नमुक्कोसयं तु पलिअत्तिअंतुसमऊणं / विरहो अंतरकालो ओराले तस्सिमो होइ॥१६४॥ इदं जघन्यं सङ्गातादिकालमानम्, उत्कृष्टं तु सङ्घातपरिशाटकरणकालमानमौदारिकमाश्रित्य पल्योपमत्रितयमेव समयोनम्,8 इयमत्र भावना- इहोत्कृष्टकालस्य प्रतिपाद्यत्वादयमविग्रहसमापन्नः इह भवात् परभवं गच्छन्निहभवशरीरशाटं कृत्वा पर-8 भवायुषस्त्रिपल्योपमकालस्य प्रथमसमये शरीरसङ्घातं करोति, ततो द्वितीयसमयादारभ्य सङ्घातपरिशाटोभयकाल इति, तेन सङ्कातनासमयेन ऊनं पल्योपमत्रयमिति, उक्तंच-उक्कोसो समऊणो जो सो संघातणासमयहीणो। चोयग-किह न दुसमयविहूणो 0 द्वौ विग्रहे समयौ समयश्च संघातनायाः तैरूनम् / क्षुल्लकभवग्रहणं सर्वजघन्यः स्थितिकालः // 1 // 0 क्षुल्लकभवग्रहणानि सप्तदश भवन्ति आनप्राणे।। 08 उत्कृष्टः समयोनो यः स संघातनासमयहीनः / चोदकः- कथं न द्विसमयविहीनः // 808