________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 806 // 8 इह प्रायोगिक द्वेधा-जीवप्रायोगिकमजीवप्रायोगिकंच, प्रयोगेन निर्वृत्तं प्रायोगिकम्, चरमं-अजीवप्रयोगकरणं कुसुम्भरागादि, आदिशब्दाच्छेषवर्णादिपरिग्रहः // एवं तावदल्पवक्तव्यत्वादभिहितमोघतोऽजीवप्रयोगकरणमिति, अधुना जीवप्रयोगकरणमाह- जीवप्रयोगकरणं द्विप्रकारं- मूल इति मूलगुणकरणम्, तथा उत्तरगुणे(ति)च उत्तरगुणकरणं चेति गाथासमासार्थः। व्यासार्थं तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादेवाजीवप्रयोगकरणमादावेवाभिधित्सुराह भा०-जंजं निजीवाणं कीरइ जीवप्पओगओतंतं। वन्नाइरूवकम्माइ वावि अज्जीवकरणंतु॥१५७॥ यद् यन्निर्जीवानां पदार्थानां क्रियते- निर्वय॑ते जीवप्रयोगतो जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादौ अजीवविषयत्वात्तदजीवकरणमिति गाथार्थः॥ भा०- जीवप्पओगकरणं दुविहं मूलप्पओगकरणं च / उत्तरपओगकरणं पंच सरीराइं पढमंमि / / 158 / / जीवप्रयोगकरणं द्विविधं द्विप्रकारं- मूलप्रयोगकरणमुत्तरप्रयोगकरणं च, चशब्दस्य व्यवहित उपन्यासः, पञ्च शरीराणि प्रथम मूलप्रयोगकरणमिति गाथार्थः॥ भा०- ओरालियाइआई ओहेणिअरंपओगओ जमिह / निष्फण्णा निप्फज्जइ आइल्लाणं च तं तिण्हं // 159 // B औदारिकादीनि, आदिशब्दाद्वैक्रियाहारकतैजसकार्मणशरीरपरिग्रहः, ओघेन इति सामान्येन, इतरत् उत्तरप्रयोगकरणं गृह्यते, तल्लक्षणं चेदं- प्रयोगतः प्रयोगेणैव यद् इह लोके निष्पन्नाः, मूलप्रयोगेण निष्पद्यत इति तद् उत्तरकरणम्, आद्यानां च तत् त्रयाणाम्, एतदुक्तं (ग्रं 11500) भवति- पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणमौदारिकादीनां त्रयाणाम्, न तु तैजसकार्मणयोः, तदसम्भवादिति गाथार्थः // 159 // तत्रौदारिका 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1016 साधोनिक्षेपाः, स्वरूपादि। भाष्यः 157-159 // 80