SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 805 // यथाप्रयोगमनुरूपार्थः करणशब्दोऽवसेय इति, अनादि आदिरहितं धर्मादीना मिति धर्माधर्माकाशास्तिकायानामन्योऽन्यसमाधानं करणमिति गम्यते, आह-करणशब्दस्तावदपूर्वप्रादुर्भावे वर्तते, ततश्च करणंचानादिचेति विरुद्धम्, उच्यते, नावश्यमपूर्वप्रादुर्भाव एव, किं तर्हि?, अन्योऽन्यसमाधानेऽपीति न दोषः, अथवा परप्रत्यययोगा दिति परवस्तुप्रत्ययभावाद्धर्मास्तिकायादीनां तथा तथा योग्यताकरणमिति, एवमप्यनादित्वं विरुध्यत इति चेत्, न, अनन्तशक्तिप्रचितद्रव्यपर्यायोभयरूपत्वे सति वस्तुनो द्रव्यादेशेनाविरोधादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति, अथवा परप्रत्यययोगात् तत्तत्पर्यायभवनं साद्येव करणम्, देवदत्तादिसंयोगाद्धर्मादीनां विशिष्टपर्याय इत्यर्थः, एवमरूपिद्रव्याण्यधिकृत्योक्तंसाद्यमनाचं च विश्रसाकरणम्, अधुना रूपिद्रव्याण्यधिकृत्य साद्येव चाक्षुषेतरभेदमाह- सादि चक्षुःस्पर्शं चाक्षुषमित्यर्थः, अभ्रादि, आदिशब्दात् शक्रचापादिपरिग्रहः, अचक्खुत्ति अचाक्षुषमण्वादि, आदिशब्दात् व्यणुकादिपरिग्रहः, करणता चेह कृतिःकरणमितिकृत्वा, अन्यथा वा स्वयं बुद्ध्या योजनीयेति गाथार्थः॥ चाक्षुषाचाक्षुषभेदमेव विशेषेण प्रतिपादयन्नाह भा०- संघायभेअतदुभयकरणं इंदाउहाइ पच्चक्खं / दुअअणुमाईणं पुण छउमत्थाईणऽपच्चक्खं // 155 // सङ्घातभेदतदुभयैः करणं संघातभेदतदुभयकरणम्, इन्द्रायुधादिस्थूलमनन्तपुद्गलात्मकं प्रत्यक्षं चाक्षुषमित्यर्थः, व्यणुकादीनाम्, आदिशब्दात्तथाविधानन्ताणुकान्तानां पुनः करणमिति वर्तते, किं?, छद्मस्थादीनां? आदिशब्दः स्वगतानेकभेदप्रतिपादनार्थ इति, अप्रत्यक्ष- अचाक्षुषमिति गाथार्थः॥ उक्तं विश्रसाकरणम्, अधुना प्रयोगकरणं प्रतिपादयन्नाह___ भा०- जीवमजीवे पाओगिअंच चरमं कुसुंभरागाई। जीवप्पओगकरणं मूले तह उत्तरगुणे अ॥१५६॥ O करणता। रु छद्मस्थगतानाम् / नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1016 साधोनिक्षेपाः, स्वरूपादि। भाष्यः 155-156 // 805 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy