SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 804 // 0.5 नमस्कारव्याख्या, व्याख्या, 1016 अक्षरगतं पदार्थमात्रमधिकृत्य निगदसिद्धा, साम्प्रतं द्रव्यकरणप्रतिपादनायाऽऽह____ भा०- जाणगभविअइरित्तं सन्ना नोसन्नओ भवे करणं / सन्ना कडकरणाई नोसन्ना वीससपओगे / / 153 // इह यथासम्भवं द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणम्, तच्च नोआगमतो ज्ञभव्यातिरिक्तं संज्ञा नोसंज्ञातो भवेत् करणम्, एतदुक्तं भवति- ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यकरणं द्विधा- संज्ञाकरणं नोसंज्ञाकरणं च, तत्र संज्ञाकरणं कटकरणादि, नियुक्ति: आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिकोच्यते, अयमत्र भावार्थ:- कटनिर्वर्तकमयोमयं चित्रसंस्था साधोपोल्लकादि तथा रुतपूणिकानिर्वर्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणमन्वर्थोपपत्तेरिति, आह- इदं नामकरणमेव निक्षेपाः, पर्यायमात्रतः संज्ञाकरणमिति न कश्चिद्विशेष इति, उच्यते, इह नामकरणमभिधानमात्रं गृह्यते, संज्ञाकरणंत्वन्वर्थतः संज्ञायाः स्वरूपादि। करणं 2, द्रव्यस्य संज्ञया निर्दिश्यमानत्वात् , तथा च भाष्यकारेणाप्येतदेवाभ्यधायि-सन्ना णामंति मई तंणो णामं जमभिधाणं॥ 1 // जं वा तदत्थविकले कीरइ दव्वं तु दवणपरिणामं / पेलुक्करणाइ न हि तं तयत्थसुण्णं ण वा सद्दो॥२॥ जइ ण तदत्थविहीणं तो किं दव्वकरणं? जओ तेणं। दव्व कीरइ सण्णाकरणंति य करणरूढिओ॥३॥ नोसंज्ञे ति नोसंज्ञाद्रव्यकरणम्, तच्च द्विधा- प्रयोगतो विश्रसातश्च, अत एवाह-वीससपओगेत्ति गाथार्थः॥ तत्र विश्रसाकरणं द्विप्रकार-साधनादिभेदात्, अत एवाह ग्रन्थकार:___ भा०- वीससकरणमणाई धम्माईण परपच्चयाजो(यजो) गा।साई चक्खुप्फासिअमब्भाइमचक्खुमणुमाई // 154 // विश्रसा स्वभावो भण्यते तेन करणं विश्रसाकरणम्, इह च कृत्यलुटो बहुल (पा० 3-3-113) मिति वचनात् करणादिषु पाइल्लकादिः। 0 संज्ञा नामेति मतिः। तन्नो नाम यदभिधानम्॥ 1 // यद्वा तदर्थविकले क्रियते द्रव्यं तु द्रवणपरिणामः / पेलुकरणादि न हि तत्तदर्थशून्यं न वा शब्दः / / 2 / / यदि न तदर्थविहीनं तदा किं द्रव्यकरणं? यतस्तेन / द्रव्यं क्रियते संज्ञाकरणमिति च करणरूढेः / / 3 / / भाष्यः 153-154 // 804 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy