SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 803 // नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1015-1016 साधोनिक्षेपाः, स्वरूपादि। भाष्यः१५२ नाच जीवेन ये मुक्ता यावत्तं परिणामंन मुञ्चन्ति तावद्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धाजीवसम्प्रयुक्ताश्व, अनेन त्रिविधेन करणभूतेन, त्रिविधं पूर्वाधिकृतं सावधं योगं न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामिनानुमन्येऽहमिति, तस्येत्यधिकृतो योगः सम्बध्यते, भयान्त इति पूर्ववत्, प्रतिक्रमामि- निवर्तेऽहमित्युक्तं भवति, निन्दामीति जुगुप्से इत्यर्थः, गर्हामीति च स एवार्थः, किन्त्वात्मसाक्षिकी निन्दा गुरुसाक्षिकी गति, किं जुगुप्से?- 'आत्मानं' अतीतसावधयोगकारिणम्, व्युत्सृजामी'ति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो भृशार्थः सृजामि-त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, एवं तावत्पदार्थपदविग्रहौ यथासम्भवमुक्तौ, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, तदत्रान्तरे सूत्रस्पर्शनियुक्तिरुच्यते, स्वस्थानत्वात्, आह च नियुक्तिकारः नि०- अक्खलिअसंहिआई वक्खाणचउक्कए दरिसिअंमि ।सुत्तप्फासिअनिब्रुत्तिवित्थरत्थो इमो होइ॥१०१५॥ अक्खलिआइत्ति अस्खलितादौ सूत्र उच्चरिते, तथा संहितादौ व्याख्यानचतुष्टये दर्शिते सति, किं?- सूत्रस्पर्शनियुक्तिविस्तरार्थः अयं भवतीति गाथार्थः॥१०१५॥ नि०-करणे १भए अ२ अंते ३सामाइअ४ सव्वए अ५ वजे अ६।जोगे 7 पच्चक्खाणे 8 जावजीवाइ ९तिविहेणं 10 // 1016 // करणं भयं च अन्तः सामायिकं सर्वं च वर्जं च योगः प्रत्याख्यानं यावज्जीवया त्रिविधेनेति पदानि, पदार्थं तु भाष्यगाथाभिय॑क्षेण प्रतिपादयिष्यतीति गाथासमासार्थः // 1016 // साम्प्रतं करणनिक्षेपं प्रदर्शयन्नाह भा०- नामं १ठवणा 2 दविए 3 खित्ते 4 काले 5 तहेव भावे अ६ / एसो खलु करणस्सा निक्खेवो छव्विहो होइ॥१५२॥ नियुक्तिगाथा इत्यपि। // 803 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy