SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 802 // भयं प्रतीतम्, तथा वक्ष्यामश्चोपरिष्टादिति, अन्तो- विनाशः, भयस्यान्त इत्ययमेव पदविग्रहः, पदपृथक्करणं पदविग्रह इति, सामायिकपदार्थः पूर्ववत्, सर्वमित्यपरिशेषवाची शब्दः, अवयं- पापं सहावद्येन सावद्यः- सपाप इत्यर्थः, युज्यत इति योगः- व्यापारस्तम्, प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आङ् आभिमुख्ये ख्या प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापन सावद्ययोगस्य करोमि प्रत्याख्यामीति, अथवा प्रत्याचक्ष इति, 'चक्षिङ् व्यक्तायां वाचि' अस्य प्रत्यापूर्वस्यायमर्थः नियुक्तिः 1014 प्रतिषेधस्यादरेणाभिधानं करोमि प्रत्याचक्षे, 'यावज्जीवये' त्यत्र यावच्छब्दः परिमाणमर्यादावधारणवचनः,तत्र परिमाणे साधोयावत् मम जीवनपरिमाणं तावत् प्रत्याख्यामीति, मर्यादायां यावज्जीवनमिति, मरणमर्यादाया आरान्न मरणकालमात्र एवेति, निक्षेपाः, अवधारणे यावज्जीवनमेव तावत् प्रत्याख्यामि, न तस्मात् परत इत्यर्थः, जीवनं जीवेत्ययं क्रियाशब्दः परिगृह्यते तया, स्वरूपादि। अथवा प्रत्याख्यानक्रिया गृह्यते, यावज्जीवो यस्यांसा यावज्जीवा तया, 'त्रिविध मिति तिम्रो विधा यस्य सावधयोगस्य स त्रिविधः, सच प्रत्याख्येयत्वेन कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं योगं मनोवाक्कायव्यापारलक्षणम्, कायवाङ्गनःकर्मयोगः (तत्वा० अ०६ सू०१) इति वचनात्, त्रिविधेनेति करणे तृतीया, 'मनसा वाचा कायेन' तत्र 'मन ज्ञाने' मननं मन्यते वाऽनेनेति असुन्प्रत्यये मनः, तच्चतुर्द्धा-नामस्थापनाद्रव्यभावैः, द्रव्यमनस्तद्योग्यपुद्गलमयम्, भावमनो मन्ता जीव एव, ‘वा परिभाषणे' वचनं उच्यते वाऽनयेति वाक्, साऽपि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाक् शब्दपरिणामयोग्यपुद्गला जीवपरिगृहीता भाववाक् पुनस्त एव पुद्गलाःशब्दपरिणाममापन्नाः,'चिञ्चयने' चयनं चीयते वाऽनेनेति निवासचिति // 802 // शरीरोपसमाधानेष्वादेश्च कः (पा०३-३-४१) इति कायः, जीवस्य निवासात् पुद्गलानां चितेः पुद्गलानामेव केषाञ्चित् शरणात् / तेषामेवावयवसमाधानात् कायः- शरीरम्, सोऽपिचतुर्द्धा नामादिभिः, तत्र द्रव्यकायो ये शरीरत्वयोग्याः अगृहीतास्तत्स्वामि
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy