________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ नमस्कारव्याख्या, व्याख्या, नियुक्तिः 1010-1011 साधो // 795 // नि निक्षेपाः, स्वरूपादि। साधनम्, अर्हन्नमस्कारपूर्वकसिद्धत्वयोगेनार्हतामपि वस्तुतः सिद्धनमस्कार्यत्वात् प्रधानत्वादिति भावना, आह- यद्येवमाचार्यादिस्तहि क्रमः प्राप्तः, अर्हतामपि तदुपदेशेन संवित्तेरिति, अत्रोच्यते, न, इहार्हत्सिद्धयोरेवायंवस्तुतस्तुल्यबलयोर्विचारः श्रेयान्, परमनायकभूतत्वाद्, आचार्यास्तु तत्परिषत्कल्पा वर्तन्ते, नापि कश्चित् परिषदं प्रणम्य प्रणामं कृत्वा ततः प्रणमति राज्ञ इत्यतोऽचोद्यमेतदिति गाथार्थः॥१००९॥ उक्तं क्रमद्वारम्, अधुना प्रयोजनफलप्रदर्शनायेदमाह नि०- इत्थ य पओअणमिणं कम्मखओ मंगलागमोचेव / इहलोअपारलोइअदुविह फलं तत्थ दिटुंता॥१०१०॥ * अत्र च नमस्कारकरणे प्रयोजनमिदं- यदुत करणकाल एवाक्षेपेण कर्मक्षयःज्ञानावरणीयादिकर्मापगमः, अनन्तपुद्गलापगममन्तरेण भावतो नकारमात्रस्याप्यप्राप्तेरित्यादि भावितम्, तथा मङ्गलागमश्चैव यः करणकालभावीति, तथा कालान्तरभावि पुनरैहलौकिकपारलौकिकभेदभिन्नं द्विविधं फलं द्विप्रकारं फलम्, तत्र दृष्टान्ताः वक्ष्यमाणलक्षणा इति गाथार्थः॥१०१०॥ नि०- इह लोइ अत्थकामा 2 आरुग्गं 3 अभिरई 4 अनिष्फत्ती ५।सिद्धी अ६सग्ग 7 सुकुलप्पच्चायाई 8 अपरलोए॥१०११॥ इह लोकेऽर्थकामौ भवतः, तथाऽऽरोग्यं भवति नीरुजत्वमित्यर्थः, एते चार्थादयः शुभविपाकिनोऽस्य भवन्ति, तथा चाहअभिरतिश्च भवति, आभिमुख्येन रतिः- अभिरतिः इह लोकेऽर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वान्निष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेश्च निष्पत्तिरित्येकवाक्यतैव, तथा सिद्धिश्च मुक्तिश्च, तथा स्वर्गः सुकुलप्रत्यायातिश्च परलोक इत्यामुष्मिकं फलम् // इह च सिद्धिश्चेत्यादिक्रमः प्रधानफलापेक्ष्युपायख्यापनश्च (नार्थः), तथाहि- विरला एवैकभवेन सिद्धिमासादयन्ति, अनासादयन्तश्चाविराधकाः स्वर्गसुकुलोत्पत्तिमन्तरेण नावस्थान्तरमनुभवन्तीति गथार्थः॥ 1011 // साम्प्रतं यथाक्रममेवार्थादीनधिकृत्योदाहरणानि प्रतिपादयन्नाह // 795 //