________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिः 995-997 आचार्यनिक्षेपाः (4) / // 790 // नि०-आयारोनाणाई तस्सायरणा पभासणाओवा।जे ते भावायरिया भावायारोवउत्ताय // 995 // आचारः पूर्ववत् ज्ञानादिपञ्चप्रकारः, तस्य आचारस्याऽऽचरणात् प्रभाषणाद्वा, वाशब्दाद् दर्शनाद्वा हेतोर्ये मुमुक्षुभिर्गुणैर्वा ज्ञानादिभिराचर्यन्ते ते भावाचार्या उच्यन्ते, एतच्चाऽऽचरणाद्यनुपयोगतोऽपि सम्भवति यतः अत आह- ‘भावाचारोपयुक्ताश्च भावार्थमाचारो भावाचारः तदुपयुक्ताश्चेति गाथार्थः॥९९५॥आयरियणमोकारो 4 इत्यादिगाथाप्रपञ्चः सामान्येनार्हन्नमस्कारवदवसेयः विशेषतस्तु सुगम एवेति // उक्त आचार्यनमस्काराधिकारः। साम्प्रतमुपाध्यायनमस्काराधिकारः, तत्रोपाध्याय इति कः शब्दार्थः?, उच्यते- 'इङ् अध्ययने' इत्यस्य 'इङश्चेति (पा० 3-3-21) घञ् उपाध्यायः, उपेत्याधीयतेऽस्मात् साधवः सूत्रमित्युपाध्यायः, सच नामादिभेदाच्चतुर्विध इति, आह च नि०- नामंठवणादविए भावंमि चउव्विहो उवज्झाओ। दव्वे लोइअसिप्पाइ निण्हगा वा इमे भावे // 996 // इयं हि तत्त्वत आचार्यगाथातुल्ययोगक्षेमैवेति न प्रतन्यते, नवरं निह्नवा वेति यदुक्तं तत्र ते ह्यभिनिवेशदोषेणैकमपि पदार्थमन्यथा प्ररूपयन्तो मिथ्यादृष्टय एव इत्यतो द्रव्योपाध्याया इति // नि०- बारसंगो जिणक्खाओ सज्झाओ कहिओ बुहेहिं / तं उवइसंति जम्हा उवझाया तेण वुचंति // 997 // द्वादशाङ्ग आचारादिभेदात् जिनाख्यातः अर्हत्प्रणीतः स्वाध्यायः वाचनादिनिबन्धनत्वात् इह सूत्रमेव गृह्यते, कथितः बुधैः गणधरादिभिः, य इति गम्यते, तं स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात् कारणादुपाध्यायास्तेनोच्यन्ते, उपेत्याधीयतेऽस्मादित्यन्वर्थोपपत्तेरिति गाथार्थः // 997 // साम्प्रतमागमशैल्याऽक्षरार्थमधिकृत्योपाध्यायशब्दार्थं निरूपयन्नाह // 790 //