________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 789 // नमस्कारव्याख्या, व्याख्या, नियुक्तिः 993-994 आचार्यनिक्षेपाः (4) / चार्यनमस्कारः, तत्राचार्य इति कः शब्दार्थः, उच्यते,-'चर गतिभक्षणयोः' इत्यस्य (चरेः) आङि वा गुरा (पा० 3-1100) वार्त्तिके विति ण्यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत इत्यर्थः, अयं च नामादिभेदाच्चतुर्विधः, तथा चाऽऽह नि०- नामंठवणादविए भावंमि चउव्विहो उ आयरिओ।दव्वंमि एगभविआई लोइए सिप्पसत्थाई॥९९३॥ नामाचार्यः स्थापनाचार्यः द्रव्याचार्यो भावाचार्य इति, तत्र नामस्थापनाचार्यो सुगमौ, द्रव्याचार्यमागमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वादनादृत्य ज्ञशरीरादिव्यतिरिक्तं द्रव्याचार्यमभिधातुकाम आह- द्रव्य इति द्रव्याचार्यः, एकभविकादिः एकभविकः बद्धायुष्कःअभिमुखनामगोत्रश्चेति, अथवा आदिशब्दाव्यभूत आचार्य द्रव्याचार्यः, भूतशब्द उपमावाची, द्रव्यनिमित्तं वा य आचारवानित्यादि, भावाचार्य:- लौकिको लोकोत्तरश्च, तत्र लौकिकः शिल्पशास्त्रादिः, तत्परिज्ञानात् तदभेदोपचारेणैवमुच्यते, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये त्वेवं भेदमकृत्वौघत एवैनमपि द्रव्याचार्य व्याचक्षत इति गाथार्थः।। 993 // अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयन्नाह नि०- पंचविहं आयारं आयरमाणा तहा पभासंता। आयारं संता आयरिया तेण वुच्चंति / / 994 // पञ्चविधं पञ्चप्रकारं-ज्ञानदर्शनचारित्रतपोवीर्यभेदात्, 'आचार'मिति आङ्मर्यादायांचरणं चारः- मर्यादया कालनियमादिलक्षणया चार आचार इति, उक्तं च- काले विणए बहुमाणे इत्यादि, तमाचरन्तः सन्तः अनुष्ठानरूपेण, तथा प्रभाषमाणाः अर्थाद् व्याख्यानेन, तथाऽऽचारं दर्शयन्तः सन्तः प्रत्युपेक्षणादिक्रियाद्वारेण, मुमुक्षुभिः सेव्यन्ते येन कारणेनाचार्यास्तेनोच्यन्त इति गाथार्थः // 994 // अमुमेवार्थं स्पष्टयन्नाह