SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 0.3.6 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 493 // नामादिश्चतुर्विधः प्रत्ययनिक्षेपो, नामस्थापने सुगमे, द्रव्ये द्रव्यविषयस्तप्तमाषकादिः, आदिशब्दाद्धटदिव्यादिपरिग्रहः, द्रव्यं 0.3 उपोद्घातच तत्प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययः- तप्तमाषकादिरेव, तज्जो वा प्रत्याय्यपुरुषप्रत्यय इति, भावम्मि त्ति भावे नियुक्तिः, विचार्यमाणेऽवध्यादिस्त्रिविधो भावप्रत्ययः, तस्य बाह्यलिङ्गकारणानपेक्षत्वाद्, आदिशब्दान्मनःपर्यायकेवलपरिग्रहः, षष्ठद्वारम्, मतिश्रुते तु बाह्यलिङ्गकारणापेक्षित्वान्न विवक्षिते, बहु चात्र वक्तव्यं तच्च नोच्यते, ग्रन्थविस्तरभयादिति, प्रकृतं उपयोगस्तु उपक्रमादिः। नियुक्ति: 750 सामायिकमङ्गीकृत्य भावेणं ति भावप्रत्ययेनेति गाथार्थः / अत एवाह (4) द्रव्येनि०- केवलणाणित्ति अहं अरहा सामइयं परिकहेई / तेसिपि पच्चओखलु सव्वण्णू तो निसामिति ॥७५०॥दारं // तप्तमाषादिः, केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत एव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, तेषामपि श्रोतॄणांगणधरादीनां भावेऽ वध्यादिः। हृद्गताशेषसंशयपरिच्छित्त्या प्रत्ययः अवबोधः सर्वज्ञ इत्येवंभूतो भवति, अस्मादेव यत्कैश्चिदुक्तं-सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि नियुक्तिः 751 बुभुत्सुभिः / तत्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम्?॥१॥ इत्यादि, तव्युदस्तं वेदितव्यम्, अन्यथा चतुर्वेदे पुरुषे लोकस्य लक्षणनिक्षेपाः (12), भावे तद्व्यवहारानुपपत्तेः, विजृम्भितं चात्रास्मत्स्वयूथ्यैः प्रवचनसिद्ध्यादिषु, अतः सञ्जातप्रत्यया निशामयन्ति शृण्वन्तीति श्रद्धानादि गाथार्थः / गतं प्रत्ययद्वारम्, इदानीं लक्षणद्वारावयवार्थप्रतिपादनायाह नि०- नामंठवणा दविए सरिसे सामण्णलक्खणागारे।गइरागइणाणत्ती निमित्त उप्पाय विगमे य॥७५१॥ लक्ष्यतेऽनेनेति लक्षणं- पदार्थस्वरूपम्, तच्च द्वादशधा, तत्र नामलक्षणं लक्षणमितीयं वर्णानुपूर्वी, स्थापनालक्षणं लकारादिवर्णानामाकारविशेषः, द्रव्यलक्षणं ज्ञशरीराद्यतिरिक्तं यद्यस्य द्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपम्, यथा गत्यादि 0जीवपुद्गलगतं गत्यादि, तस्य धर्मास्तिकायादिकार्यत्वात् तल्लक्षणता / // 493 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy