SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 785 // नमस्कारव्याख्या, व्याख्या, नियुक्तिः 980-982 | सिद्धशिलावर्णनम्, नमस्कारफलानि। नि०- नवि अस्थि माणुसाणं तं सुक्खं नेव सव्वदेवाणं / जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं॥९८०॥ नैवास्ति मानुषाणां चक्रवादीनामपि तत् सौख्यम्, नैव सर्वदेवानां अनुत्तरसुरपर्यन्तानामपि, यत् सिद्धानां सौख्यम्, अव्याबाधामुपगताना मिति तत्र विविधा आबाधा व्याबाधा न व्याबाधा अव्याबाधा तामुप- सामीप्येन गतानां- प्राप्तानामिति गाथार्थः // 980 // यथा नास्ति तथा भङ्गयोपदर्शयति नि०-सुरगणसुहं समत्तं सव्वद्धापिंडिअंअणंतगुणं / न य पावइ मुत्तिसुहंऽणंताहिवि वग्गवग्गूहिं॥९८१॥ सुरगणसुखं देवसङ्घातसुखं समस्तं सम्पूर्णं अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनश्च सव्वद्धापिंडिअंसर्वकालसमयगुणितम्, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यते, इत्येवंसकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्राप्नोति तथा प्रकर्षगतमपि मुक्तिसुखं सिद्धिसुखम्, अनन्तैरपि वर्गवगैर्वर्गितमिति गाथार्थः॥ 981 / / तथा चैतदभिहितार्थानुवाद्येवाऽऽह ग्रन्थकारः नि०-सिद्धस्स सुहोरासी सव्वद्धापिंडिओ जइ हविज्जा / सोऽणंतवग्गभइओसव्वागासे न माइज्जा // 982 // सिद्धस्य सम्बन्धिभूतः सुखराशि: सुखसङ्घात इत्यर्थः, सद्धिापिण्डितः सर्वकालसमयगुणितः यदि भवेदित्यनेन कल्पनामात्रतामाह, सः अनन्तवर्गभक्तः अनन्तवर्गापवर्गितः सन् समीभूत एवेति भावार्थः, सर्वाकाशे लोकालोकाकाशे न मायात्, अयमत्र भावार्थ:- इह किल विशिष्टाह्लादरूपं सुखं गृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिः तमाह्लादमवधीकृत्यैकैकगुणवृद्धितारतम्येन तावदसावाह्लादो विशेष्यते यावदनन्तगुणवृद्ध्या निरतिशयगुणनिष्ठांगतः, ततश्चासावत्यन्तोपमातीतैकान्तौत्सुक्यविनिवृत्तिस्तिमिततमकल्पश्चरमाह्लाद एव सदा सिद्धानामिति, तस्माच्चारतः प्रथमाच्चोर्ध्वमान्तरालवर्तिनो // 785 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy