________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 784 // 0.5 नमस्कारव्याख्या, व्याख्या, नियुक्तिः |978-979 सिद्धशिलावर्णनम्, नमस्कारफलानि। उपयुक्ताः, क्व?, दर्शने च केवलदर्शने ज्ञाने च केवल एवेति, इह च सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थं सामान्यालम्बनदर्शनाभिधानमादावदुष्टमिति, तथाच सामान्यविषयं दर्शनं विशेषविषयं ज्ञानमिति, ततश्च साकारानाकारं सामान्यविशेषरूपमित्यर्थः, लक्षणं तदन्यव्यावृत्तं स्वरूपमित्यर्थः एतद् अनन्तरोक्तम्, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थः, सिद्धानां निष्ठितार्थानामिति गाथार्थः॥९७७॥ साम्प्रतं केवलज्ञानदर्शनयोरशेषविषयतामुपदर्शयति नि०- केवलनाणुवउत्ता जाणंती सवभावगुणभावे। पासंति सव्वओखलु केवलदिट्ठीहिऽणंताहिं / / 978 // केवलज्ञानेनोपयुक्ताः केवलज्ञानोपयुक्ताः न त्वन्तःकरणेन, तदभावादिति, किं?, जानन्ति अवगच्छन्ति सर्वभावगुणभावान् सर्वपदार्थगुणपर्यायानित्यर्थः, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचन इति, गुणपर्यायभेदस्तु सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा पश्यन्ति सर्वतः खलु खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, केवलदृष्टिभिरनन्ताभिः, केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामिति, इह चाऽऽदौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्ध्यन्तीति ज्ञापना मिति गाथार्थः // 978 // आह- किमेते युगपज्जानन्ति पश्यन्ति च? इत्याहोश्विदयुगपदिति, अत्रोच्यते, अयुगपत्, कथमवसीयते?, यत आह नि०- नाणंमिदंसणंमि अइत्तो एगयरयंमि उवउत्ता। सव्वस्स केवलिस्सा जुगवं दो नत्थि उवओगा॥९७९॥ ज्ञाने दर्शने च एत्तो त्ति अनयोरेकतरस्मिन्नुपयुक्ताः, किमिति?, यतः सर्वस्य केवलिनः सत्त्वस्य युगपद् एकस्मिन् काले द्वौ न स्तः उपयोगौ, तत्स्वाभाव्यात्, क्षायोपशमिकसंवेदने तथादर्शनात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः / / 979 // साम्प्रतं निरुपमसुखभाजश्च त इत्येतदुपदर्शयन्नाह // 784 //