________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 783 // नमस्कारव्याख्या, व्याख्या, नियुक्तिः 975-977 सिद्धशिलावर्णनम्, नमस्कारफलानि। निगदसिद्धा, नवरं अनित्थंस्थं इतीदंप्रकारमापन्नमित्थम्, इत्थं तिष्ठतीति इत्थस्थं न इत्थंस्थं अनित्थस्थंमिति केनचित् प्रकारेण लौकिकेनास्थितमित्यर्थः॥ 974 // आह- ओघत एते किं देशभेदेन स्थिता? उत नेति? नेत्याह- कुत इति?, अत्रोच्यते, यस्मात् नि०- जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का। अन्नुन्नसमोगाढा पुट्ठा सव्वे अलोगंते // 975 // यत्रैव देशे चशब्दस्यैवकारार्थत्वात् एकः सिद्धः, निर्वृतः, तत्रानन्ताः किं?- भवक्षयविमुक्ता इति भवक्षयेण विमुक्ताः भवक्षयविमुक्ताः, अनेन पुनः स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामवत्त्वात्, धर्मास्तिकायादिवत्, पुट्ठा सव्वे य लोगंते त्ति स्पृष्टा:- लग्नाः सर्वे च लोकान्ते, अथवा स्पृष्टः सर्वैश्च लोकान्त इति, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः // 975 // तथा नि०-फुसइ अणंते सिद्धे सव्वपएसेहि निअमसो सिद्धो / तेऽवि असंखिज्जगुणा देसपएसेहिँ जे पुट्ठा // 976 // स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैः आत्मसम्बन्धिभिः नियमात् नियमेन सिद्ध इति, तथा तेऽप्यसङ्ख्येयगुणा वर्तन्ते देशप्रदेशैर्ये स्पृष्टाः, तेभ्यः सर्वदेशप्रदेशस्पृष्टेभ्यः, कथं? - सर्वात्मप्रदेशैरनन्ताः स्पृष्टाः तथैकैकप्रदेशेनाप्यनन्ता एव, स चासङ्खयेयप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवप्रदेशासङ्खयेयानन्तकैर्गुणितं यथोक्तमेव भवतीति गाथार्थः // 976 // स्थापना चेयं-साम्प्रतं सिद्धानेव लक्षणतः प्रतिपादयन्नाह नि०- असरीरा जीवघणा उवउत्ता दंसणे अनाणे अ।सागारमणागारं लक्खणमेअंतु सिद्धाणं // 977 // अविद्यमानशरीराः, औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्चेति घनाश्चेति विग्रहः, घनग्रहणं शुषिर // 783 //