________________ नमस्कार श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 780 // नि०- एगा जोअणकोडी बायालीसंच सयसहस्साई। तीसंचेव सहस्सा दो चेव सया अउणवन्ना / / 962 / / निगदसिद्धा, नवरं पञ्चचत्वारिंशद्योजनलक्षप्रमाणक्षेत्रस्याल्पमन्यत् परिध्याधिक्यं प्रज्ञापनातोऽवसेयम्, इहौघत इदमिति व्याख्या, // 962 // इदानीमस्या एव बाहुल्यं प्रतिपादयन्नाह व्याख्या, नि०- बहुमज्झदेसभावे अटेव य जोअणाणि बाहल्लं / चरमंतेसु अतणुई अंगुलऽसंखिज्जईभागं // 963 // नियुक्तिः 962-966 मध्यदेशभाग एव बहुमध्यदेशभागस्तस्मिन्नष्टैव योजनानि बाहुल्यं- उच्चैस्त्वं चरिमान्तेषु पश्चिमान्तेषु तन्वी, क्रियता तनु | सिद्धशिलाइत्यत्राह- अङ्गुलासङ्खयेयभागं यावत् तन्वीति गाथार्थः // 963 // सा पुनरनेन क्रमेणेत्थं तन्वीति दर्शयति वर्णनम्, ___ नि०- गंतूण जोअणं जोअणं तु परिहाइ अंगुलपुहुत्तं / तीसेऽविअ पेरंता मच्छिअपत्ताउ तणुअयरा / / 964 // नमस्कार फलानि। / गत्वा योजनं योजनं तु वीप्सा परिहायइ त्ति परिहीयते अङ्गुलपृथक्त्वं पृथक्त्वं पूर्ववत्, एवं अनेन प्रकारेण हानिभावे सति तस्या अपि च पर्यन्ताः, किं?- मक्षिकापत्रात् तनुतरा घृतपूर्णतथाविधकरोटिकाकारेति गाथार्थः // 964 // स्थापना चेयम् / / अस्याश्चोपरि योजनचतुर्विंशतिभागे सिद्धा भवन्तीति / अत एवाऽऽह नि०-ईसीपब्भाराए सीआए जोअणंमि जो कोसो। कोसस्सय छन्भाए सिद्धाणोगाहणा भणिया॥९६५॥ ईषत्प्राग्भारायाः सीताया इति पूर्ववत्, योजने उपरिवर्तिनि यः क्रोश उपरिव]व, क्रोशस्य च तस्य षड्भागे उपरिवर्तिन्येव सिद्धानामवगाहना भणिता, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः॥ 965 // अमुमेवार्थं समर्थयन्नाह नि०- तिन्नि सया तित्तीसाधणुत्तिभागो अकोसछन्भाओ। जं परमोगाहोऽयं तो ते कोसस्स छन्भाए / 966 / / त्रीणि शतानि धनुषां त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च क्रोशषड्भागो वर्तते यत् यस्मात् परमावगाहोऽयं सिद्धानामिति वर्तते, // 780