SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 778 // तत्रासावेकसमयेन लोकान्ते सिध्यतीत्यागमः, इह च कर्ममुक्तस्य तद्देशनियमन गतिर्नोपपद्यते इति मा भूदव्युत्पन्नविभ्रम इत्यतस्तन्निरासेनेष्टार्थसिद्ध्यर्थमिदमाह नि०-लाउअरंडफले अग्गी धूमे असू धणुविमुक्के।गइपुव्वपओगेणं एवं सिद्धाणवि गईओ॥९५७ // अलाबु एरण्डफलम्, अग्निधूमौ, इषुर्धनुर्विमुक्तः, अमीषां यथा तथा गमनकाले स्वभावतस्तन्निबन्धनाभावेऽपि देशादिनियतैव गतिः पूर्वप्रयोगेण प्रवर्तते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिरित्यक्षरार्थः॥ 957 // अधुना भावार्थः प्रयोगैर्निदर्श्यते- तत्र कर्मविमुक्तो जीवः सकृदूर्ध्वमेवाऽऽलोकाद्गच्छति, असङ्गत्वेन तथाविधपरिणामत्वादष्टमृत्तिकालेपलिप्ताधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुवत् तथा छिन्नबन्धनत्वेन तथाविधपरिणतेस्तद्विधैरण्डफलवत् तथा स्वाभाविकपरिणामत्वादग्निधूमवत् तथा पूर्वप्रयुक्ततत्क्रियातथाविधसामर्थ्याद्धनुः प्रयत्नेरितेषुवद्, इषुः- शर इति गाथार्थः / / 957 // एवं प्रतिपादिते सत्याह नि०- कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया / कहिं बोंदिंचइत्ताणं, कत्थ गंतूण सिज्झई?॥९५८॥ व प्रतिहताः क्व प्रतिस्खलिता इत्यर्थः सिद्धाः मुक्ताः, तथा क्व सिद्धाः प्रतिष्ठिताः क्व व्यवस्थिता इत्यर्थः, तथा क्व बोन्दि त्यक्त्वा क्व तनुं परित्यज्येत्यर्थः, इह बोन्दिः तनुः शरीरमित्यनर्थान्तरम्, तथा क्व गत्वा सिध्यन्ति निष्ठितार्था भवन्ति, इत्यनुस्वारलोपोऽत्र द्रष्टव्यः अथवैकवचनतोऽप्येवमुपन्यासः सूत्रशैल्याऽविरुद्ध एव, यतोऽन्यत्रापि प्रयोगः- वत्थगंधमलंकार इत्थीओ सयणाणि य। अच्छंदा जेण भुंजंति ण से चाइत्ति वुच्चई॥१॥इत्यादि गाथार्थः // 958 // इत्थं चोदकपक्षमधिकृत्याऽऽह नि०- अलोए पडिहया सिद्धा, लोअग्गे अपइट्ठिया / इहं बोंदिचइत्ता णं, तत्थ गंतूण सिज्झई॥९५९॥ व्याख्या, नियुक्तिः 957-959 सिद्धस्य निरुक्तिः, समुद्धातः, शैलेशी, अलाबुकादिवद्गतिः, अलोके स्खलनेत्यादि।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy