SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 777 // प्रतिपद्यते, तत्र शिलाभिर्निर्वृत्तः शिलानां वाऽयमित्यण शैल:- पर्वतस्तेषामीश:- प्रभुः शैलेशः, स च मेरुः, तस्येवेयं 0.5 स्थिरतासाम्यादवस्थेति शैलेशी, अथवा- अशैलेशः सन्नभूततद्भावाच्छैलेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा नमस्कार व्याख्या, सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं योगनिरोधावस्थेति शैलेशी, इयं च मध्यमप्रतिपत्त्या ह्रस्वपञ्चाक्षरोद्दिरणमात्र व्याख्या, कालं भवति, स च काययोगनिरोधारम्भात् प्रभृति ध्यायति सूक्ष्मक्रियाऽनिवृत्तिध्यानम्, ततः सर्वनिरोधं कृत्वा नियुक्तिः 956 सिद्धस्य शैलेश्यवस्थायां व्युच्छिन्नक्रियमप्रतिपातीति, ततो भवोपग्राहिकर्मजालं क्षपयित्वा ऋजुश्रेणिप्रतिपन्नः अस्पृशद्गत्या निरुक्तिः, सिध्यतीति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः।। 955 // अनन्तरगाथोपन्यस्तसमुद्धात समुद्धातः, शैलेशी, मात्रापेक्षः सम्बन्धः / आह- समुद्धातगतानां विशिष्टकर्मक्षयो भवतीति काऽत्रोपपत्तिरिति?, उच्यते, प्रयत्नविशेषः, अलाबुकाकिं निदर्शनं? इत्यत आह दिवद्गतिः, नि०-जह उल्ला साडीआ आसुसुक्कइ विरल्लिआ संती। तह कम्मलहुअसमए वच्चंति जिणा समुग्घायं // 956 // | अलोके स्खलनेयथा इत्युदाहरणोपन्यासार्थः, आर्द्रा शाटिका, जलेनेति गम्यते, आशु शीघ्रं शुष्यति शोषमुपयाति, विरल्लिता विस्तारिता त्यादि। सती भवति, तथा तेऽपि प्रयत्नविशेषात् कर्मोदकमधिकृत्य शुष्यन्तीति शेषः, यतश्चैवमतः कर्मलघुतासमये व्रजन्ति जिनाः समुद्धात मिति तत्र कर्मण- आयुष्कस्य लघुता कर्मलघुता, लघो वो लघुता- स्तोकतेत्यर्थः, तस्याः समयः- कालः कर्मलघुतासमयः, स च भिन्नमुहूर्तप्रमाणस्तस्मिन्, अथवा कर्मभिर्लघुता कर्मलघुता, जीवस्येति हृदयम्, सा च समुद्धातानन्तरभाविन्येव भूतोपचारं कृत्वाऽनागतैव गृह्यते, तस्याः समयस्तस्मिन्, भिन्नमुहूर्त एवेत्यर्थः, व्रजन्ति- गच्छन्ति / जिनाः- केवलिनः समुद्धातं प्राक्प्ररूपितस्वरूपमिति गाथार्थः // 956 // साम्प्रतं यदुक्तं शैलेशी प्रतिपद्यते सिध्यति चे ति, // 777 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy