________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 774 // नमस्कारव्याख्या, व्याख्या, | नियुक्तिः 954-955 | सिद्धस्य निरुक्तिः, नि०- नाऊण वेअणिज्जं अइबहुअंआउअंच थोवागं / गंतूण समुग्घायंखवंति कम्मं निरवसेसं // 954 // ज्ञात्वा केवलेनावगम्य, किं?- वेदनीयं कर्म, किंभूतं?- अतिबहुशेषभवोपग्राहिकर्मापेक्षयाऽतिप्रभूतमित्यर्थः, तथाऽऽयुष्कं च कर्म स्तोकं अल्पम्, तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे गत्वा प्राप्य समुद्धातं इति सम्यग् अपुनर्भावेनोत्- प्राबल्येन कर्मणो हननं घात:- प्रलयो यस्मिन् प्रयत्नविशेषेऽसौ समुद्धात इति तम्, क्षपयन्ति विनाशयन्ति कर्म वेदनीयादि निरवशेष इति निरवशेषमिव निरवशेष प्रभूततमक्षपणाच्छेषस्य चान्तर्मुहूर्त्तमात्रकालावधित्वात्, किञ्चिच्छेषत्वादसत्कल्पनेति भावना, अत्राऽऽह- 'ज्ञात्वा वेदनीयमतिबह्वि' त्यत्र को नियमः? येन तदेव बहु (ग्रं०११०००) तथाऽऽयुष्कमेवाल्पमिति, अत्रोच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात् केवलिनोऽपि तद्बन्धकत्वादायुष्कस्य चाल्पत्वात्, उक्तं च- जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा णो णं अबंधए आयुष्कस्य त्वान्तर्मुहर्तिक एव बन्धकाल इति, उक्तंच-"सिय तिभागे सिय तिभागतिभागेइत्याद्यलं प्रसङ्गेनेति गाथार्थः॥९५४॥ इदानीं समुद्धातादिस्वरूपप्रतिपादनायैवाऽऽह नि०- दंड कवाडे मंथंतरे असाहरणया सरीरत्थे। भासाजोगनिरोहे सेलेसी सिज्झणा चेव // 955 // / इह समुद्धातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, आन्तौहर्तिकमुदीरणावलिकायां कर्मपुद्गलप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्धातं गच्छति, तस्य चायंक्रमः- इह प्रथमसमय एव स्वदेहविष्कम्भतुल्यविष्कम्भमूर्ध्वमधश्चाऽऽयतमुभय 0 यावदयं जीव एजते व्येजते चलति स्पन्दते तावदष्टविधबन्धको वा सप्तविधबन्धको वा षड्धिबन्धको वा एकविधबन्धको वा नाबन्धकः। ॐ स्यात्रिभागे स्यात्रिभागत्रिभागे। समुद्धातः, शैलेशी, | अलाबुका| दिवद्गतिः, | अलोके स्खलनेत्यादि। // 774 //