SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 775 // तोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घातं दण्डं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं. पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति, तृतीयसमये तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थसदृशं मन्थानं करोति लोकान्तप्रापिणमेव, एवं च लोकस्य प्रायो बहु परिपूरितं भवति, मन्थान्तराण्यपूरितानि व्याख्या, भवन्ति, अनुश्रेणिगमनात्, चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो नियुक्ति: 955 | सिद्धस्य भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमंमन्थान्तराणि संहरति- जीवप्रदेशान् सकर्मकान् सङ्कोचयति, निरुक्तिः, षष्ठेसमये मन्थानमुपसंहरतिघनतरसङ्कोचात्, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचात्, अष्टमसमये दण्डमुपसंहृत्य समुद्धातः, शरीरस्थ एव भवति / अमुमेवार्थं चेतसि निधायोक्तं दण्डकपाटं मन्थान्तराणि संहरणता प्रतिलोममिति गम्यते, शरीरस्थ इति शैलेशी, अलाबुकावचनात्, न चैतत् स्वमनीषिकाव्याख्यानम्, यत उक्तं- प्रथमे समये दण्डं कपाटमथ चोत्तरे तथा समये। मन्थानमथ तृतीये दिवद्गतिः, लोकव्यापी चतुर्थे तु॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे। सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् // 2 // इति / अलोके स्खलनेतस्येदानीं समुद्धातगतस्य योगव्यापारश्चिन्त्यते- योगाश्च-मनोवाक्कायाः,अत्रैषांकः कदा व्याप्रियते?, तत्र हि मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात्, काययोगस्यैव केवलस्य व्यापारः, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिकयोग एव, द्वितीयषष्ठसप्तमे समये पुनरौदारिकेतस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, त्रिचतुर्थपञ्चमेषु तु बहिरेवौदारिकात् बहुतरप्रदेशव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनादिति, अन्यत्राप्युक्तं- औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः / मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु // 1 // कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च। समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमाद् ॥२॥इति, कृतं प्रसङ्गेन / भाषायोगनिरोध इति,कोऽर्थः?- परित्यक्तसमुद्धातः कारणवशाद् त्यादि। // 775 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy