________________ 0.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 773 // नमस्कारव्याख्या, व्याख्या, व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत्, तथा चाऽऽहुरेके-'दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् / दिशंन काञ्चिद्विदिशंन काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम्॥१॥'इत्यादि, एवंविधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यात् निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात्, प्रदीपदृष्टान्तस्याप्यसिद्धत्वात्, तथाहि-तत्र त एव पुद्गला भास्वरं रूपं परित्यज्य तामसं| नियुक्ति: 953 सिद्धस्य रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवाऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रयः-वेग: चेष्टाऽनुभवः फलमित्यना निरुक्तिः, न्तरम्, ततश्च दीर्घकालो रयोऽस्येति दीर्घकालरयम्, सन्तानोपभोग्यत्वादिति भावना, यद्भव्यकर्म 'सेसित' मिति श्लेषितमिति समुद्धातः, संश्लिष्टं लेश्यानुभावात् अष्टधा सितमित्यादि पूर्ववत्, अथवाऽन्यथा व्याख्यायते-दीर्घकालरज इति, तत्र रज इव रजः शैलेशी, अलाबुकासूक्ष्मतया स्नेहबन्धनयोग्यत्वाद्वारज इत्युच्यते,यद्भव्यकर्मेति च नैवं व्याख्यायते,साक्षात्कर्माभिधानेन सर्वनाम्नो निरर्थकत्वात्, दिवद्गतिः, प्रकरणादेव भव्यस्यावगम्यमानत्वाद्, अभव्यस्य सिद्धत्वानुपपत्तेः, ततश्च जन्तुकर्म इति व्याख्यायते, जन्तुः- जीवस्तस्य अलोके स्खलनेकर्म जन्तुकर्म, अनेनाबद्धकर्मव्यवच्छेदमाह, तच्च से' तस्य जन्तोः 'असितं' असितमिति कृष्णमशुभं संसारानुबन्धित्वात्, त्यादि। एवंविधस्यैव च क्षयः श्रेयानिति, न तु शुभस्य स्वरूपस्येति भावना, अष्टधा सितमिति पूर्ववदिति गाथार्थः॥प्रथमव्याख्या- पक्षमधिकृत्य सम्बन्धमाह-तत्कर्मशेषं तस्य समस्थित्यसमस्थिति वा स्यात्?, न तावत् समस्थिति विषमनिबन्धनत्वात्, नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवादिति, एतदयुक्तम्, उभयथाऽप्यदोषात्, तथाहि-विषमनिबन्धनत्वे सत्यपि विचित्रक्षयसम्भवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षेऽपिसमुद्धातगमनेन समस्थितिकरणभावाददोषः, न चैतत् स्वमनीषिकयैवोच्यते, यत आह नियुक्तिकारः // 773 //