________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 490 // कारणभेदसमुच्चयार्थ इति गाथार्थः / यदुक्तं-संसारस्यैकविध मित्यादि, तदुपप्रदर्शनायाह 0.3 उपोद्घातनि०-अस्संजमो य एक्को अण्णाणं अविरई यदुविहं तु ।अण्णाणं मिच्छत्तं च अविरती चेव तिविहं तु॥७४०॥ नियुक्तिः, 0.3.6 __ असंयमः अविरतिलक्षणः, सह्येक एव संसारकारणम्, अज्ञानादीनां तदुपष्टम्भकत्वादप्रधानत्वादिति, तथाऽज्ञानमविरतिश्च / षष्ठद्वारम्, द्विविधं तु संसारकारणम्, तत्राज्ञानं- कर्माच्छादितजीवस्य विपरीतावबोध इति, अविरतिस्तु सावधयोगानिवृत्तिरिति, | उपक्रमादिः। तथा मित्थात्वमज्ञानं चाविरतिश्चैव त्रिविधं तु संसारकारणम्, तत्र मिथ्यात्वं- अतत्त्वार्थश्रद्धानम्, शेषं गतार्थम्, एवं कषायादि | नियुक्तिः 740-742 सम्पर्कादन्येऽपि भेदाः प्रतिपादयितव्या इति गाथार्थः।। उक्तमप्रशस्तं भावकारणम्, अधुना प्रशस्तमुच्यते कारणनिक्षेपाः नि०- होइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा / तं चेव य विवरीयं अहिगारोपसत्थएणेत्थं / / 741 // | तदन्यद्रव्ये भवति प्रशस्तं भावकारणं मोक्षस्य कारणमिति, तच्च एक मित्येकविधं द्विविधं त्रिविधं वा, इदं पुनः तदेव च संसारकारणं | निमित्तअसंयमादि विपरीतं द्रष्टव्यम्, एकविधं संयमः, द्विविधं ज्ञानसंयमौ, त्रिविधं सम्यग्दर्शनज्ञानसंयमा इति, अधिकारः प्रस्तावः | नैमित्तिनौ प्रशस्तेन भावकारणेन अत्र सामायिकान्वाख्याने, मोक्षाङ्गत्वादस्येति / ततश्च प्रशस्तभावरूपं चेदम्, कारणंच मोक्षस्य इति समवायिनी, अधिकारभावनेति गाथार्थः / इत्थं कारणद्वारे अधिकार प्रदर्य पुनः कारणद्वारसङ्गतमेव वक्तव्यताशेषमाशङ्काद्वारेणाभि- कादि (6) / धित्सुराहनि०-तित्थयरो किं कारणंभासइ सामाइयं तु अज्झयणं? / तित्थयरणामगोत्तं कम्मं मे वेइयव्वंति // 742 // 8 // 490 // तीर्थकरणशीलस्तीर्थकरः, तीर्थं पूर्वोक्तम्, स किंकारणं किंनिमित्तं भाषते सामायिकं त्वध्ययनं?, तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयम्, अत्रोच्यते- तीर्थकरनामगोत्रं तीर्थकरनामसज्ञम्, गोत्रशब्दः सञ्ज्ञायाम्, कर्म मया समवाय्य