________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 489 // तस्य कार्ये स्वातन्त्र्येणोपयोगात्, तमन्तरेण विवक्षितकार्यानुत्पत्तेः अभीष्टकारणवत्, ततश्च घटोत्पत्तौ कुलालः कारणम्, 0.3 उपोद्घाततथा करणं च- मृत्पिण्डादि करणम्, तस्य साधकतमत्वात्, तथा कर्म च कारणम्, क्रियते निर्वर्त्यते यत्तत्कर्म- कार्यम्, नियुक्तिः, 0.3.6 आह- तत्कथमलब्धात्मलाभं तदा कारणमिति?, अत्रोच्यते, कार्यनिर्वर्तनक्रियाविषयत्वात्तस्योपचारात्कारणता, उक्तं षष्ठद्वारम्, च- निर्वयं वा विकार्यं वा, प्राप्यं वा यत्क्रियाफलम्। तत्दृष्टादृष्टसंस्कार, कर्म कर्तुर्यदीप्सितम् // 1 // इत्यादि, मुख्यवृत्त्या वा उपक्रमादिः। नियुक्ति: 739 सौकर्यगुणेन कर्म कारणम्, तथा सम्प्रदानंच घटस्य कारणम्, तस्य कर्मणाऽभिप्रेतत्वात्, तमन्तरेण तस्याभावात्, सम्यक् कारणनिक्षेपाः सत्कृत्य वा प्रयत्नेन दानं सम्प्रदानम्, अत एव च रजकस्य वस्त्रं ददातीति न सम्प्रदाने चतुर्थी, किं तु ब्राह्मणाय घट ददातीति, तथाऽपादानं कारणम्, विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्योपकारकत्वाद्, 'दो अवखण्डने' दानंखण्डनम् तदन्यद्रव्ये निमित्तअपसृत्य मर्यादया दानमपादानम्, पिण्डापायोऽपि मृदो ध्रुवत्वादपादानतेति, साच घटस्य कारणम्, तामन्तरेण तस्यानुत्पत्तेः, नैमित्तिनौ तथा सन्निधानं च कारणम्, तस्याधारतया कार्योपकारकत्वात्, सन्निधीयते यत्र कार्यं तत्सन्निधानं- अधिकरणम्, तच्च समवाय्य समवायिनी, घटस्य चक्रम्, तस्यापि भूः, तस्या अप्याकाशम्, आकाशस्य त्वधिकरणं नास्ति, स्वरूपप्रतिष्ठितत्वात्, घटस्य चेदं कारणम्, कादि (6) / एतदभावे घटानुत्पत्तेरिति गाथार्थः / / उक्तं द्रव्यकारणम्, इदानीं भावकारणप्रतिपादनायाह नि०-दुविहं च होइ भावे अपसत्थ पसत्थगंच अपसत्थं / संसारस्सेगविहंदुविहं तिविहं च नायव्वं / / 739 // भवतीति भावः, स चौदयिकादिः, स एव कारणं संसारापवयोरिति भावकारणम्, तत्र द्विविधं च द्विप्रकारं च भवति, // 489 // भावे विचार्यमाणे, कारणमिति प्रक्रमाद्गम्यते, भावविषयं वा, भावकारणमित्यर्थः, अप्रशस्तं- अशोभनं प्रशस्तं- शोभनं। च, तत्राप्रशस्तं संसारस्य सम्बन्धि एकविधं- एकभेदं द्विविधं- द्विभेदं त्रिविधं- त्रिभेदं च ज्ञातव्यम्, चशब्दश्चतुर्विधाद्यनुक्त