SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 488 // नि०-णिक्खेवो कारणंमी चउब्विहो दुविहु होइ दव्वंमि। तद्दव्वमण्णदव्वे अहवावि णिमित्तनेमित्ती // 737 / / दारं / / अस्या गमनिका- निक्षेपणं निक्षेपो न्यास इत्यर्थः, करोतीति कारणम्, कार्य निर्वर्त्तयतीति हृदयम्, तस्मिन् कारणेकारणविषयः चतुर्विधः चतुर्भेदः नामस्थापनाद्रव्यभावलक्षणः, नामस्थापने सुज्ञाने, द्रव्यकारणं व्यतिरिक्तं द्विधा, यत आहद्विविधो भवति द्रव्ये, निक्षेप इति वर्त्तते, सूचनात्सूत्रमितिकृत्वा द्रव्ये इति द्रव्यकारणविषयो द्विविधो निक्षेपः परिगृह्यते, तदेव द्रव्यकारणद्वैविध्यं दर्शयति- तद्दव्य मिति तस्यैव पटादेव्यं तद्रव्यं- तन्त्वादि, तदेव कारणमिति द्रष्टव्यम्, तद्विपरीतं वेमाद्यन्यद्रव्यकारणमिति / अथवाऽन्यथा द्विविधत्वं- निमित्तं नैमित्तिकमपि, अपिशब्दादन्यथापि कारणनानातेति, तां वक्ष्यति। तत्र पटस्य निमित्तं तन्तवस्त एव कारणम्, तद्व्यतिरेकेण पटानुत्पत्तेः, यथा च तन्तुभिर्विना न भवति पटस्तथा तद्गतातानादि-8 चेष्टादिव्यतिरेकेणापि न भवत्येव, तस्याश्च चेष्टाया वेमादिनिमित्तम्, ततो निमित्तस्येदं नैमित्तिकमिति गाथार्थः॥ नि०-समवाइ असमवाई छव्विह कत्ता य कम्म करणं च / तत्तो यसंपयाणापयाण तह संनिहाणे य / / 738 // समेकीभावे अवोऽपृथक्त्वे अय गतौ, ततश्चैकीभावेनापृथग्गमनं समवायः- संश्लेषः स येषां विद्यते ते समवायिनः-8 तन्तवो यस्मात्तेषु पटः समवैतीति, समवायिनश्च ते कारणंच समवायिकारणं- तन्तुसंयोगाः, कारणद्रव्यान्तरधर्मत्वात् पटाख्यकार्यद्रव्यान्तरस्य दूरवर्त्तित्वात् असमवायिनः त एव कारणमसमवायिकारणमिति / आह- अर्थाभेदे सत्यनेकधा कारणद्वयोपन्यासोऽनर्थक इति, न, सज्ञाभेदेन तन्त्रान्तरीयाभ्युपगमप्रदर्शनपरत्वात्तस्य, अथवा षड्डिधं कारणम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, करोतीति कर्तरि व्युत्पत्तेः, स्वेन व्यापारेण कार्ये यदुपयुज्यते तत्कारणम्, कथं षड्विधमित्याह- कर्ता च कारणम्, (r) करण कम्मं चेति व्याख्या। 0.3 उपोद्घातनियुक्तिः, 0.3.6 षष्ठद्वारम्, उपक्रमादिः। नियुक्तिः 737-738 कारणनिक्षेपा: (4) तदन्यद्रव्ये निमित्तनैमित्तिनौ समवाय्यसमवायिनी, कादि (6) / // 488 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy