SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ भाष्य श्रीआवश्यक धुरे ठवेऊण अणुजाणइ। एवं सामाइयस्सवि अत्थो भगवतो निग्गओ, सुत्तंगणहरेहितो निग्गतं, इत्यलं विस्तरेणेति गाथार्थः। 0.3 उपोद्घातनियुक्ति| (ग्रन्थाग्रं 7000) साम्प्रतं पुरुषद्वारावयवार्थप्रतिपिपादयिषयाऽऽह | नियुक्तिः, श्रीहारिक नि०- दव्वाभिलावचिंधे वेए धम्मत्थभोगभावे य। भावपुरिसो उ जीवोभावे पगयं तु भावेणं // 736 // | षष्ठद्वारम्, वृत्तियुतम् दव्व त्ति द्रव्यपुरुषः, स चागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तैकभविकबद्धायुष्काभिमुखनामगोत्रभेदभिन्नो द्रष्टव्यः, उपक्रमादिः। भाग-२ | नियुक्ति: 736 // 487 // अथवा व्यतिरिक्तो द्विधा- मूलगुणनिर्मितः उत्तरगुणनिर्मितश्च, तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुण पुरुषनिक्षेपाः निर्मितस्तु तदाकारवन्ति तान्येव, अभिलप्यतेऽनेनेति अभिलापः- शब्दः, तत्राभिलापपुरुषः पुल्लिङ्गाभिधानमात्रं घटः पट (8) / इति वा, चिह्नपुरुषस्त्वपुरुषोऽपि पुरुषचिह्नोपलक्षितो यथा नपुंसकं श्मश्रुचिह्नमित्यादि, तथा त्रिष्वपि लिङ्गेषु स्त्रीपुन्नपुंसकेषु तृणज्वालोपमवेदानुभवकाले वेदपुरुष इति, तथा धर्मार्जनव्यापारपरः साधुर्धर्मपुरुषः, अर्थार्जनपरस्त्वर्थपुरुषो मम्मणनिधिपालवत्, भोगपुरुषस्तु सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थश्चक्रवर्त्तिवत्, भावे यत्ति भावपुरुषश्च, चशब्दो नामाद्यनुक्तभेदसमुच्चयार्थः, भावपुरिसो उ जीवो भावे त्ति पू:- शरीरं पुरि शेते इति निरुक्तवशाद् भावपुरुषस्तु जीवः, भावि त्ति भावद्वारे निरूप्यमाणे भावद्वारचिन्तायामिति भावार्थः, अथवा 'भावे' त्ति भावनिर्गमप्ररूपणायामधिकृतायाम्, किं? - पगयं तु र भावेणं ति प्रकृतं उपयोगस्तुभावेनेत्युपलक्षणाद्भावपुरुषेण-शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः, तुशब्दावेदपुरुषेण च गणधरेणेति, एतदुक्तं भवति- अर्थतस्तीर्थकरान्निर्गतं सूत्रतो गणधरेभ्य इति, एवमन्येऽपि यथासम्भवमायोज्या इति गाथार्थः॥ गतं // 487 // पुरुषद्वारम्, साम्प्रतं कारणद्वारावयवार्थव्याचिख्यासयाऽऽहB धुरि स्थापयित्वाऽनुजानाति / एवं सामायिकस्यापि अर्थो भगवतो निर्गतः, सूत्रं गणधरेभ्यो निर्गतम्। 0 षण्ढः क्लीबो नपुंसकमिति हैम्युक्तेः नपुंस्त्वम् /
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy