________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 716 // अर्हन्नमस्कार एवं खलु वर्णितो महार्थ इति महानर्थो यस्य स महार्थः, अल्पाक्षरोऽपि द्वादशाङ्गार्थसाहित्वान्महार्थ इति, कथं पुनरेतदेवमित्याह- यो नमस्कारो मरणे प्राणत्यागलक्षणे उपाग्रे- समीपभूते अभिक्षणं अनवरतं क्रियते बहुशः अनेकशः, ततश्च प्रधानापदिसमनुस्मरणकरणेन ग्रहणात् महार्थः, प्रधानश्चायमिति / आह च भाष्यकार:-जलणाइभए सेसं मोत्तुंऽप्पेगरयणं महामोल्लं / जुहि वाऽइभए घेप्पइ अमोहसत्थं जह तहेह॥१॥ मोत्तुंपि बारसंग स एव मरणंमि कीरए जम्हा। अरहंतनमोक्कारो तम्हा सो बारसंगत्थो॥२॥ सव्वंपि बारसंगं परिणामविसुद्धिहेउमेत्तायं। तक्कारणभावाओ किह न तदत्थो नमोक्कारो? ॥३॥ण हु तंमि देसकाले सक्को बारसविहो सुयक्खंधो। सव्वो अणुचिंतेउं धंतपि समत्थचित्तेणं॥ 4 // तप्पणईणं तम्हा अणुसरियव्वो सुहण चित्तेणं। एसेव नमोक्कारो कयन्नुतं मन्नमाणेणं॥५॥ इति गाथार्थः // 925 // उपसंहरन्नाह नि०- अरिहंतनमुक्कारो, सव्वपावप्पणासणो। मंगलाणंच सव्वेसिं, पढमहवइ मंगलं // 926 // किं बहुना?, इहाहन्नमस्कारः, किं?- सर्वपापप्रणाशनः, तत्र पांशयतीति निपातनात् पापम्, पिबति वा हितमिति पापम्, औणादिकः पः प्रत्ययः, सर्वं- अष्टप्रकारमपि कर्म- पापं जातिसामान्यापेक्षया, उक्तं च- पापं कमैव तत्त्वत इत्यादि, तत्प्रणाशयतीति सर्वपापप्रणाशनः, मङ्गलानां च सर्वेषां नामादिलक्षणानां प्रथम इति प्रधानं प्रधानार्थकारित्वात्, अथवा Oज्वलनादिभये शेषं मुक्त्वा अप्येक रत्नं महामूल्यम् / युधि वाऽतिभये गृह्यतेऽमोघशस्त्रं यथा तथेह // 1 // मुक्त्वाऽपि द्वादशाङ्गं स एव मरणे क्रियते यस्मात्। अर्हन्नमस्कारस्तस्मात्स द्वादशाङ्गार्थः / / 2 / / सर्वमपि द्वादशाङ्गं परिणामविशुद्धिमात्रहेतुकम् / तत्कारणभावात् कथं न तदर्थो नमस्कारः? / / 3 / / नैव तस्मिन् देशकाले शक्यो द्वादशविधः श्रुतस्कन्धः / सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन // 4 // तत्प्रणतीनां(सद्भावात् ) तस्मादनुसतव्यः शुभेन चित्तेन / एष एव नमस्कारः कृतज्ञत्वं मन्यमानेन / / 5 / / (गाथेयं गाथाचतुष्काद्भिन्नसंबन्धा तत्र)। पारणं मुद्रिते। * ०मत्थं मुद्रिते / 0.5 नमस्कारव्याख्या, नियुक्ति: 926 महासार्थवाहत्वादि, दृष्टान्ताः सविशेषाः, रागद्वेषकषायेन्द्रियाणि (सदृष्टान्तानि) कषायनिक्षेपाः (8) / // 716 //