SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ नियुक्तिः 923-925 महासार्थवाहत्वादि दृष्टान्ताः / // 715 // यतोरजोहन्तारस्तेनोच्यन्ते इति, रजो बध्यमानकं कर्म भण्यत इति गाथार्थः॥९२२॥ इदानीममोघताख्यापनार्थमपान्तरालिकं / नमस्कारफलमुपदर्शयति नि०- अरहंतनमुक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणो बोहिलाभाए॥९२३॥ 8 अर्हतां नमस्कारः अर्हन्नमस्कार, इहार्हच्छब्देन बुद्धिस्थाहदाकारवती स्थापना गृह्यते, नमस्कारस्तु नमः शब्द एव, जीवं आत्मानं मोचयति अपनयति, कुतः?- भवसहस्रेभ्यः, भावेन उपयोगेन क्रियमाणः, इह च सहस्रशब्दो यद्यपि दशशतसङ्ख्यायां वर्तते तथाऽप्यत्रार्थादनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षप्रापयतीत्युक्तं भवति, आह-नसर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः, तत्कथमुच्यते-जीवं मोचयतीत्यादि, उच्यते, यद्यपि तद्भव एव मोक्षाय न भवति तथाऽपि भावनाविशेषाद्भवति पुनः बोधिलाभाय बोधिलाभार्थम्, बोधिलाभश्चाचिरादविकलो मोक्षहेतुरित्यतोन दोष इतिगाथार्थः॥ 923 // तथा चाह नि०- अरिहंतनमुक्कारो धन्नाण भवक्खयं कुणंताणं / हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ॥९२४ // अर्हन्नमस्कार इति पूर्ववत्, धन्यानां भवक्षयं कुर्वताम्, तत्र धन्याः- ज्ञानदर्शनचारित्रधनाः साध्वादयः, तेषां भवक्षयं कुर्वतामिति, अत्र तद्भवजीवितं भवः तस्य क्षयो भवक्षयस्तं कुर्वतां- आचरताम्, किं? - हृदयं चेतः अनुन्मुञ्चन् अपरित्यजन्, हृदयादनपगच्छन्नित्यर्थः, विस्रोतसिकावारको भवति, इहापध्यानं विस्रोतसिकोच्यते, तद्वारको भवति, धर्मध्यानैकालम्बनतां करोतीति गाथार्थः // 924 // नि०- अरहंतनमुक्कारो एवं खलु वण्णिओ महत्थुत्ति / जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो॥९२५॥ // 715 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy