________________ 0.5 नमस्कारव्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 714 // 920-922 दृष्टान्ताः। निरुक्तिः स्यात्, एतदनन्तरगाथायामेत एवोक्ताः पुनरमीषामेवेहोपन्यासोऽयुक्त इति?, अत्रोच्यते, अनन्तरगाथायां नमस्कारार्ह-2 त्वे हेतुत्वेनोक्ताः, इह पुनरभिधाननिरुक्तिप्रतिपादनार्थमुपन्यास इति गाथार्थः / साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, आह च नियुक्तिः नि०- अट्ठविहंपिय कम्मं अरिभूअंहोइ सव्वजीवाणं / तं कम्ममरिं हंता अरिहंता तेण वुच्चंति // 920 // अष्टविधमपि अष्टप्रकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि, चशब्दो भिन्नक्रमः, स चावधारणे, ज्ञाना महासार्थ वाहत्वादि वरणादि, ततश्चाष्टविधं कमैव अरिभूतं शत्रुभूतं भवति सर्वजीवानां सर्वसत्त्वानामनवबोधादिदुःखहेतुत्वादिति भावः, पश्चार्द्ध | पूर्ववत्, एवंविधा अरिहन्तार इति गाथार्थः / / 920 // अथवा नि०- अरिहंति वंदणनमंसणाई अरिहंति पूअसक्कारं / सिद्धिगमणंच अरिहा अरहंता तेण वुच्चंति / / 921 // अर्ह पूजायां अर्हन्तीति पचाद्यच् कर्तरि अर्हाः, किमर्हन्ति?- वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽर्हन्ति / पूजासत्कारम्, तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कारः, तथा सिद्धिगमनं चाहन्ति सिद्ध्यन्ति-निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः- लोकान्तक्षेत्रलक्षणा, वक्ष्यति च-"इह बोंदिं चइत्ता णं तत्थ गंतूण सिज्झई' तद्गमनं चल प्रत्यर्हा इति, अरहता तेण वुचंति प्राकृतशैल्या अस्तेिनोच्यन्ते, अथवा अर्हन्तीत्यर्हन्त इति गाथार्थः // 921 // नि०-तथा- देवासुरमणुएसुंअरिहा पूआ सुरुत्तमा जम्हा / अरिणो हंता रयं हंता अरिहंता तेण वुचंति // 922 // देवासुरमनुजेभ्यः पूजामर्हन्ति-प्राप्नुवन्ति तद्योग्यत्वात्, सुरोत्तमत्वादिति युक्तिः, इत्थमनेकधाऽन्वर्थमभिधाय पुनः सामान्य- // 714 // विशेषाभ्यामुपसंहरन्नाह- अरिणो हंता इत्यादि पूर्ववदेव, अरीणां हन्तारः यतः अरिहन्तारस्तेनोच्यन्ते, तथा रजसो हन्तारः 0 इह तनु त्यक्त्वा तत्र गत्वा सिध्यति /