________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 484 // नि०- सादीसपज्जवसिओ चउभंगविभागभावणा एत्थं / ओदइयादीयाणं तं जाणसुभावकालं तु // 732 // सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र कार्या, केषां?- औदयिकादीनां भावानामिति, ततश्च योऽसौ विभागभावनाविषयस्तं जानीहि भावकालं तु, इयमक्षरगमनिका, अयं भावार्थ:- औदयिको भावः सादिः सपर्यवसानः सादिरपर्यवसानः / अनादिः सपर्यवसानः अनादिरपर्यवसान इत्येवमौपशमिकादिष्वपि चतुर्भङ्गिका द्रष्टव्या, इयं पुनरत्रविभागभावनाऔदयिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः- नारकादीनां नारकादिभवः खल्वौदयिको भावः / सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिको भावोऽनादिसपर्यवसानः, स एवाभव्यानां चरमभङ्ग इति। उक्तः औदयिकः, औपशमिकचतुर्भङ्गिकायांतु व्यादयः शून्या एव, प्रथमभङ्गस्त्वौपशमिकसम्यक्त्वादयः, औपशमिको भावः सादिसपर्यवसान इति / उक्त औपशमिकः, क्षायिकचतुर्भङ्गिकायांतुत्र्यादयः शून्या एव, क्षायिकंचारित्रंदानादिलब्धिपञ्चक च क्षायिको भावःसादिसपर्यवसानः, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पातीतत्वात्, क्षायिकज्ञानदर्शने तुसादिरपर्यवसाने इति, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति / उक्तः क्षायिकः, क्षायोपशमिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः- चत्वारि ज्ञानानि क्षायोपशमिको भावः सादिसपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसाने, एते एवाभव्यानां चरमभङ्ग इति / उक्तः क्षायोपशमिकः, पारिणामिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं गोचरः- पुद्गलकाये व्यणुकादिः पारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं भव्यानामनादिः सपर्यवसानः, जीवत्वं पुनः चरमभङ्ग इति, उक्तः पारिणामिकः / उक्तार्थसङ्ग्रहगाथा- बीयं दुतियादीया भंगा वज्जेत्तु / 0 (औदयिकाद्यनुक्रमेण) द्वितीयं द्वितीयादीन् तृतीयादीन् भङ्गान् वर्जयित्वा = 0.3 उपोद्घातनियुक्तिः, 0.3.6 षष्ठद्वारम्, उपक्रमादिः। नियुक्ति: 732 प्रशस्ताप्रशस्तदेशकाली, दिवसरात्री प्रमाणकालौ। // 484 //